गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 219, कुल 286 में से
संदर्भ में पढ़ेंघृताधिकारः १] गदनिग्रहः । १९९
गुल्मे महाषट्पलं घृतम् ।
नागरस्य तुलार्धं तु जलद्रोणे विपाचयेत् ।
चतुर्भागावशेषं तु कषायमवतारयेत् ॥ १८ ॥
शुक्तेन मस्तुना चैव दाडिमैर्बदरोदकैः ।
चतुर्गुणैरिमैस्तोयैर्घृतप्रस्थं विपाचयेत् ॥ १९ ॥
सौवर्चलं बिडं चैव पौतिकं चोषकस्तथा ।
अजाजी पिप्पली चैव अजगन्धा यवाग्रजः ॥ २० ॥
सैन्धवं पञ्चकोलं च हिङ्गुचौद्भिदमेव च ।
एतैः पलार्धकैर्द्रव्यैः शनैर्मृद्वग्निना पचेत् ॥ २१ ॥
कृमिप्लीहोदराजीर्णज्वरगुल्मप्रमेहकान् ।
वातरोगानशेषांश्च हिक्कां शूलमरोचकम् ॥ २२ ॥
पाण्डुरोगं प्रतिश्यायं दौर्बल्यं वह्निसंक्षयम् ।
महाषट्पलमातङ्कान् भिनत्त्यशनिवद्विरिम् ॥ २३ ॥
उन्मादे कल्याणकं घृतम् ।
विशाला त्रिफला कौन्ती देवदार्वेलवालुकम् ।
स्थिराऽनन्ता हरिद्रे द्वे सारिवे द्वे प्रियङ्गवः ॥ २४ ॥
नीलोत्पलैलामञ्जिष्ठादन्तीदाडिमवल्कलम् ।
तालीसपत्रं बृहती मालत्याः कुसुमं नवम् ॥ २५ ॥
विडङ्गं पृश्निपर्णी च कुष्ठं चन्दनपद्मके ।
अष्टाविंशतिभिः कल्कैरेतैरक्षप्रमाणकैः ॥ २६ ॥
चतुर्गुणं जलं दत्त्वा घृतप्रस्थं विपाचयेत् ।
अपस्मारे ज्वरे कासे शोषे मन्देऽनले क्षये ॥ २७ ॥
वातरक्ते प्रतिश्याये तृतीयकचतुर्थके ।
वम्यर्शोमूत्रकृच्छ्रे च विसर्पोपहतेषु चं ॥ २८ ॥
कण्डूपाण्ड्वामयोन्मादविषेष्वष्टगदेषु च ।
भूतोपहतचित्तानां गद्गदानामचेतसाम् ॥ २९ ॥