सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 218, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 218

१९८ आयुर्वेदीयग्रन्थमाला । [ परिशिष्टे
कोलकानां कुलत्थानां माषाणां च यवैः सह ।
प्रस्थं प्रस्थं ततः कृत्वा तस्मिन्नेव समावपेत् ॥ ६ ॥
तेन पादावशेषेण घृतप्रस्थं विपाचयेत् ।
दद्यादेभिः समं शुक्तमारनालं तुषोदकम् ॥ ७॥
दाडिमाम्रातकरसं मातुलुङ्गरसं तथा ।
चतुर्गुणं चात्र दधि गर्भमेषां समावपेत् ॥ ८ ॥
पुनर्नवैषणं दन्ती त्रीण्येव लवणानि च ।
हिंस्रा रास्ना बला चैव यवानी चाम्लवेतसम् ॥ ९ ॥
विडङ्गं दाडिमं हिङ्गु ग्रन्थिकं त्रिवृता तथा ।
द्वौ क्षारावजमोदा च पाठा पाषाणभेदकम् ॥ १० ॥
ऊषणं वृषको भार्गी श्वदंष्ट्रा हपुषा तथा ।
त्रपुषैर्वारुबीजानि शतावर्युपकुञ्चिका ॥ ११ ॥
अजाजी चित्रकं मूर्वा तुम्बरु गजपिप्पली ।
धान्यकं सुरसं चैतान् दद्यादक्षसमान् भिषक् ॥ १२ ॥
गर्भेणानेन तत्सिद्धं पाययेत्सर्पिरुत्तमम् ।
पित्तगुल्मं तथा सर्वान् गुल्मानन्यानव्यपोहति ॥ १३ ॥
एकाङ्गगे पक्षवधे तथा दुष्टे च रेतसि ।
हृद्रोगे ग्रहणीरोगे सर्पिरेतद्यथामृतम् ॥ १४ ॥
यक्ष्माणं नाशयत्येतदपस्मारं च नाशयेत् ।
दाधिकं नाम विख्यातमात्रेयानुमतं स्मृतम् ॥ १५ ॥
गुल्मे लशुनघृतम् ।
तुलां लशुनकन्दानां पृथक् पञ्चपलांशकान् ।
त्र्यूषणत्रिफलाहिङ्गुयवानीचव्यचित्रकान् ॥ १६ ॥
साम्लवेतससिन्धूत्थदेवदारून् पचेद्धृतम् ।
तैः प्रस्थं, तत्परं सर्ववातगुल्मविकारनुत् ॥ १७ ॥