गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 215, कुल 286 में से
संदर्भ में पढ़ें६.] गदनिग्रहः । १९५
विषमज्वरकासांश्च विद्रधीन् वातशोणितम् ।
अरिष्टः शमयत्याशु युधि शक्र इवासुरान् ॥ ३५३ ॥
प्लीहरोगे रोहीतकासवः ।
तुलाद्वयं रोहितमूलकानां द्विद्रोणमात्रेण जलेन पक्त्वा ।
क्षेप्यं गुडस्य द्विशतं पलानांमष्टादश स्युस्त्रिफलापलानि॥३५४
लवङ्गजातीफलधातकीनां पलानि लोहस्य षडेव दद्यात् ।
देयं चतुर्जातकपञ्चकोलं पृथक् पृथक् पञ्चपलं तथैव ॥ ३५५॥
गुल्मज्वरारोचकहृद्विकारभगन्दरप्लीहनिपीडितानाम् ।
रक्तामयश्वासनपीडितानां सदासवोऽयं विधिना प्रयोज्यः ३५६
योगराजासवः ।
द्राक्षायाः शर्करायाश्च गुडस्य च पृथक् पृथक् ।
पलानि दश कार्याणि पथ्यापलचतुष्टयम् ॥ ३५७ ॥
लवङ्गबदरीसर्जार्जुनानां छल्लिकाभवम् ।
पलं पलं पृथग्ग्राह्यं देवदारुपलं तथा ॥ ३५८ ॥
चित्रकस्य च लोध्रस्य पिप्पलीमूलकस्य च ।
धातकीकुसुमानां च तद्वद्देयं पलं पलम् ॥ ३५९ ॥
तथा पूगफलानां तु कषायाणां पलं मतम् ।
मञ्जिष्ठायाः पले द्वे तु क्वाथ्यसंज्ञानि तानि च ॥ ३६० ॥
लवङ्गकलिकाजातीपत्रैलानागकेशरम् ।
पिप्पलीशुण्ठिमरिचत्वग्द्वांसीचव्यमुस्तकम् ॥ ३६१ ॥
कुष्ठं जातीफलं ग्रन्थिपर्णं खुकू कटुरोहिणी ।
एषां पलं पलं ग्राह्यं तज्ज्ञेयं चूर्णसंज्ञितम् ॥ ३६२ ॥
ततस्तु क्वाथ्यद्रव्येभ्यो जलमष्टगुणं क्षिपेत् ।
क्वाथं तदुदके कुर्यादर्थभागावशेषितम् ॥ ३६३ ॥
तत्क्वाथं वस्त्रपूतं तु भाण्डेऽन्यस्मिन्मनोहरे ।
कृत्वाऽत्र प्रक्षिपेच्चूर्णं तद्भाण्डं धान्यराशिगम् ॥ ३६४ ॥