गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 214, कुल 286 में से
संदर्भ में पढ़ें१९४ आयुर्वेदियग्रन्थमाला । [ आसवाधिकारः
विबन्धशूलं शमयेत्पाण्डुरोगं सकामलम् ।
नाशयेच्छर्द्यतीसारं ज्वरं जीर्णं तथैव च ॥ ३४१ ॥
रोहीतकासवो ह्येष प्लीहं च शमयेद्ध्रुवम् ।
गण्डीरासवः ।
जातसारं तु गण्डीरं सपुष्पं परिशोषयेत् ॥ ३४२ ॥
खण्डशः क्षोदितं कृत्वा तस्य पञ्चाढकं पचेत् ।
त्रींश्चैव त्रिफलाप्रस्थान् दशमूलीतुलां तथा ॥ ३४३ ॥
दद्यात्कुटजवल्कस्य पलानां पञ्चविंशतिम् ।
भल्लातकानीन्द्रयवं विडङ्गं घनमेव च ॥ ३४४ ॥
अर्धप्रस्थसमान् भागानेकैकस्य समावपेत् ।
पाठा मधुरसा दन्ती षड्ग्रन्था चित्रकस्तथा ॥ ३४५ ॥
एषां दशपलान् भागान्मृद्वीकायास्तथाढकम् ।
तोयद्रोणेषु दशसु पचेद्द्विद्रोणशेषितम् ॥ ३४६ ॥
तस्मिन्कषाये पूते तु गुडस्यैकां तुलां क्षिपेत् ।
तथा तु शोधितस्यापि, शुभे भाण्डे निधापयेत् ॥ ३४७ ॥
द्वौ प्रस्थौ मधुनश्चैव द्वावयोरजसस्तथा ।
अर्धप्रस्थो विडङ्गानां कुडवो मरिचस्य च ॥ ३४८ ॥
एतयोः सूक्ष्मचूर्णानि प्रतिवापार्थमाहरेत् ।
चूर्णं मरीचकानां च मधुना सह योजयेत् ॥ ३४९ ॥
भाण्डप्रलेपः कर्तव्यः समासिच्य निधापयेत् ।
एष मासस्थितः पेयो यथाव्याधिबलाबलम् ॥ ३५० ॥
गण्डीरारिष्ट इत्येष व्यासतः परिकीर्तितः ।
एष शोषान् प्रमेहांश्च गुल्मांश्च जठराणि च ॥ ३५१ ॥
क्रिमिकुष्ठानि वर्ध्मानि प्लीहार्शांसि भगन्दरम् ।
श्वयथून् पाण्डुरोगांश्च ग्रहणीदोषमेव च ॥ ३५२ ॥
ग्रन्थींश्च गलगण्डं च गण्डमालां तथैव च ।