सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 216, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 216

१९६ आयुर्वेद ग्रन्थमाला । [ आसवाधिकारः
कृत्वा सप्तदिनं शीते काले चोष्णमये तथा ।
यावद्दिनानि त्रीणि स्युः पश्चाद्भाण्डं समुद्धरेत् ॥ ३६५ ॥
पुनस्तद्वस्त्रपूतं तु भाण्डे कर्पूरवासिते ।
निक्षिप्य सेव्येतप्रातः पलमात्रोपलक्षितम् ॥ ३६६ ॥
स दत्तो वातपित्तघ्नो दीपनो रक्तरोगनुत् ।
योगराज इति ख्यात आसवोऽयं गुणोत्तरः ॥ ३६७ ॥
अर्शोरोगे पील्वासवः ।
मूर्वाखर्जूरपाठानिलरिपुमधुकं कच्छुरा हारहूरा
कोलत्वग्वेतसाम्लं दहनमिशिकणाकृष्णविश्वालवङ्गम् ॥
त्वग्लोध्राद्दाडिमाच्च पलमितमिति पृथक् दन्तिमूलेन युक्तं
पीलुद्रोणे द्विपक्षं गुडपलशतयुक् धान्यराशौ निदध्यात् ॥३६८
अर्शः प्लीहं च गुल्मं जठरगदमथो नाशयेच्चाग्निमान्द्यं
कुर्याच्चाग्निं प्रदीप्तं प्रबलबलयुतं पीलुसंज्ञासवोऽयम् ॥ ३६९ ॥
प्रमेहे मध्वासवः ।
विशालातिविषाभार्गीकुष्ठमुस्ताप्रियङ्गवः ।
विडङ्गत्रिफलाकृष्णाचव्यग्रन्थिकदीप्यकाः ॥ ३७० ॥
अर्द्धांशान् सलिलद्रोणे पक्त्वा पादावशेषिते ।
दत्त्वा तदर्धं क्षौद्रं हि स्निग्धे भाण्डे निधापयेत् ।
एष मध्वासवो हन्ति मेहं द्विपलयोजितः ॥ ३७१ ॥
लोहासवः ।
फलत्रिकं निम्बपटोलमुस्तापाठामृताचित्रकचन्दनं च ।
विडङ्गमञ्जिष्ठमधूकसारकर्पूरवासात्रिवृताहरिद्राः ॥ ३७२ ॥
दुरालभापर्पटकण्टकारीशक्राशनं यासकचर्मरङ्गे ।
शशाङ्कलेखाकपिकच्छुमूलं मेथी च बिल्वं कुटजश्च तिक्ता ३७३
१ पीलुद्रोणे इति पीलुरसद्रोणे इत्यर्थः ।