सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 147, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 147

४.] गदनिग्रहः । १२९
वातव्याधौ व्योषाद्या गुटिका ।
व्योषं सग्रन्थिकं पथ्यां चित्रकं जीरकद्वयम् ।
अजमोदां यवानीं च वचां चैवमवल्गुजम् ॥ २९७ ॥
लवणत्रितयं क्षारं समभागानि चूर्णयेत् ।
यावन्त्येतानि द्रव्याणि तावन्तं गुग्गुलुं शुभम् ॥ २९८ ॥
पलार्धसंमितं चात्र योजयेच्चाम्लवेतसम् ।
गुटिकैषा हिता वाते सामे सन्ध्यस्थिमज्जगे ॥ २९९ ॥
नवं करोति भग्नं च जठरानलदीपनम् ।
पूजिता देवदेवेन कालपादेन शम्भुना ॥ ३०० ॥
कुष्ठे स्वायम्भुवो गुग्गुलुः ।
शशिरेशा पञ्चपलं तावद्गिरिजस्य गुग्गुलोर्दश च ।
ताप्यस्य पलत्रितयं द्वे लोहाच्छ्रवणिकायाश्च ॥ ३०१ ॥
त्रिफलाकरञ्जपल्लवखदिरगुडूचीवचात्रिवृद्दन्ती- ।
मुस्ताविडङ्गरजनीचतुरङ्गुलवह्निकुटजैश्च ॥ ३०२ ॥
पलिकैश्चूर्णमेतन्मूत्रेण गवां पिबेन्नरः प्रातः ।
कुष्ठी घृतमधुमिश्रं जयत्यसृग्वातमचिरेण ॥ ३०३ ॥
श्वित्राणि कुष्ठकोठौ विषगरगुल्मोदरप्रमेहांश्च ।
उन्मादभगन्दरमपस्मृतिश्लीपदकृमिश्चासान् ॥ ३०४ ॥
जयति वलीपलितानि च योगः स्वायम्भुवः प्रोक्तः ।
कुष्ठे धन्वन्तरीया सप्तविंशतिका गुग्गुलुगुटिका ।
त्रिकटुत्रिफलामुस्तं विडङ्गं चव्यचित्रकौ ।
सूक्ष्मैला पिप्पलीमूलं माक्षिकं सुरदारु च ॥ ३०५ ॥
तुम्बरुं पौष्करं कुष्ठं विषा च रजनीद्वयम् ।
सौवर्चलं विडं चैव सैन्धवं हस्तिपिप्पली ॥ ३०६ ॥
यावन्त्येतानि द्रव्याणि तावन्तं गुग्गुलुं पचेत् ।
प्रक्षिप्य सर्पिषा सार्धं गुटिकां कारयेद्बुधः ॥ ३०७ ॥