गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 148, कुल 286 में से
संदर्भ में पढ़ें१३० आयुर्वेदौयग्रन्थमाला । [गुटिकाधिकारः
अजमोदा विडङ्गं च दाडिमं साम्लवेतसम् ।
बाष्पिका पौष्करं दारु त्वगेलापत्रकेसरम् ॥ ३०८ ॥
एषामर्धपलैर्भागैः पलानि दश गुग्गुलोः ।
संमिश्र्य सर्पिषा सार्धं गुटिकां कारयेद्बुधः ॥ ३०९ ॥
भक्षयित्वा ससर्पिष्कां जीर्णे च प्रमिताशनम् ।
वातश्लेष्मविकारेषु नाडीदुष्टव्रणेषु च ॥ ३१० ॥
श्लेष्मकासे च शोफे च योगमेनं प्रयोजयेत् ।
जठरं योनिशूलं च हन्तर्भूतं च विद्रधिम् ॥ ३११ ॥
पार्श्वशूलं कृमीन् गुल्मान्प्रमेहांश्छर्द्यरोचकौ ।
केवलानिलजात्रोगान् शीतजान् श्लैष्मिकानपि ३१२
सेविता नाशयत्याशु रसायनमनुत्तमम् ।
रास्नाद्यो गुग्गुलुः ।
रास्नामृतैरण्डसुराह्वविश्वं तुल्यं पुरेणाथ विमृद्य खादेत् ।
वातामयी कर्णशिरोगदी च नाडीयुतश्चैव भगन्दरी च ३१३
आमवाते धन्वन्तरीया द्वात्रिंशका गुग्गुलुगुटिका ।
त्रिकटुत्रिफलामुस्तं विडङ्गं चित्रकं वचा ।
चव्यैलापिप्पलीमूलं हपुषा सुरदारु च ॥ ३१४ ॥
तुम्बुरुं पौष्करं कुष्ठं विशाला रजनीद्वयम् ।
बाष्पिका जीरकं शुण्ठी सपत्रा च दुरालभा ॥ ३१५॥
सैन्धवं च बिडं क्षारौ विषा च हस्तिपिप्पली ।
भागानेषां समान्कृत्वा तुल्यं कृत्वा तु गुग्गुलुम्॥३१६॥
ततो बदरमात्रां तु गुटिकां कारयेद्बुधः ।
तां भक्षयित्वा तु मेधावी मधुना सह योजिताम् ॥३१७
आमं हन्यात्सुदुर्वारमन्त्रवृद्धिं गुदकृमीन् ।
आनाहं च तथोन्मादं कुष्ठानि गुदजानि च ॥३१८॥
गृध्रसीं च हनुस्तम्भपक्षाघातापतानकान् ।
शोफं प्लीहामयं मेहं कामलामपचीं तथा ॥ ३१९ ॥