गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 145, कुल 286 में से
संदर्भ में पढ़ें४.] गदनिग्रहः । १२७
मज्जा तालस्य बीजानां पुष्करक्षं च केसरैः ।
धात्रीफलविदारीक्षुरसैः काश्मर्यजैः सह ॥ २७३ ॥
तत्सिद्धं कलशे ताम्रे कृतकौतुकमङ्गलः ।
उच्चटेशुरसक्षौद्रतुगाक्षीर्यांश्च बुद्धिमान् ॥ २७४ ॥
प्रस्थं प्रस्थं पृथग्दद्याच्छर्करार्धतुलां तथा ।
आत्मगुप्ताफलानां च कुडवं मरिचस्य च ॥ २७५ ॥
त्रिसुगन्धिकृतावार्पं मन्थानेन विमन्थितम् ।
पलिकान्मोदकान्कृत्वा स्थापयेन्मृन्मये नवे ॥ २७६ ॥
तेभ्यो द्वावप्यथवाप्येकं खादेद्योऽग्निबलं प्रति ।
मोदकं नियताहारो ब्रह्मचारी जितेन्द्रियः ॥ २७७ ॥
संहन्याद्यक्ष्मणः सद्य एकादशविधं बलम् ।
स्वरवर्णबलौदार्यतुष्टिपुष्टिविवर्धनम् ॥ २७८ ॥
आयुष्यं परमं चाग्र्यं भूतोपहतचेतसाम् ।
व्याकुलीकृतधातूनां वृद्धानां क्षीणरेतसाम् ॥ २७९ ॥
वाजीकरणमप्येतद्वन्ध्यानां पुत्रदं परम् ।
धनुस्त्रीमद्यभाराध्वखिन्नानां बलवर्धनम् ॥ २८० ॥
हृत्पार्श्वग्रहणीदोषमूत्रकृच्छ्रापतन्त्रकान् ।
अपस्मारं तथोन्मादं नाशयेत्तद्रसायनम् ॥ २८१ ॥
पाण्डुरोगे पुनर्नवामण्डूरः ।
पुनर्नवा त्रिवृच्छुण्ठी पिप्पली मरिचानि च ।
विडङ्गं देवकाष्ठं च चित्रकं पुष्कराह्वयम् ॥ २८२ ॥
हरिद्राद्वितयं दन्ती त्रिफला चविका तथा ।
कुटजस्य फलं तिक्ता पिप्पलीमूलमुस्तकम् ॥ २८३ ॥
एतानि समभागानि मण्डूरं द्विगुणं ततः ।
मूत्रे चाष्टगुणे पक्त्वा स्थापयेत्स्निग्धभाजने ॥ २८४ ।
पाण्डुशोफोदरानाहशूलार्शःकृमिरोगनुत् ।