सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 144, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 144

१३६ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः
एतान्यङ्गानि षट्त्रिंशत्पुष्येण परिपेषिताम् ।
गुटिकां कोलमात्रां च छायाशुष्कां हि कारयेत् ॥२६१॥
नस्यपानाञ्जने चैषा सम्यग्लेपे च पूजिता ।
पुंसां सर्वविषार्तानां राजद्वारे रणे तथा ॥ २६२ ॥
वणिजां लाभकामानां विवादे च सदा हिता ।
सरीसृपा न तिष्ठन्ति यत्र तिष्ठति वेश्मनि ॥ २६३ ॥
अनया संप्रलिप्तस्य चौरवह्निभयं कुतः ।
सर्पदष्टभयं चापि जलराशिभयं न च ॥ २६४ ॥
भूतदोषे सिद्धार्थकाद्या गुटिका ।
सिद्धार्थकव्योषवचाश्वगन्धानिशाद्वयं हिङ्गु पलाशकं च ।
बीजं करञ्जात्कुसुमं शिरीषात्फलं च वल्कश्च कपित्थवृक्षात् ॥
समाणिमन्थं सनतं च कुष्ठं श्यानाकफलं किणिही सिता च ।
बस्तस्य मूत्रेण सुभावितं तत्पिचेन गन्व्य- गुडान्विदध्यात् ॥
दुष्टव्रणोन्मादनिशान्ध्ययुक्ता उद्वन्धका वारिनिमग्नदेहाः ।
दिग्घाहताः सर्पितसर्पदष्टास्तान्साधयत्यञ्जनपानलेपैः ॥२६७॥
शोषेऽश्वत्थवटकाः ।
मूलत्वक्पत्रशुङ्गानामश्वत्थस्य समाहरेत् ।
शतं शतावरीं मेदां मधुपर्णीं पुनर्नवाम् ॥ २६८ ॥
महासहां क्षुद्रसहां गुडूचीं श्रेयसीं शिवाम् ।
स्थिरां वयस्यां बृहतीं काकोलीं काकनासिकाम् ॥२६९
क्षीरद्रोणेषु दशसु पचेत्तत्सममात्रया ।
सिद्धं शीतं पुनः क्षीरं मन्थानेन विमन्थयेत् ॥ २७०॥
जायते यद्धृतं तत्र तदुद्धृत्य पुनः पचेत् ।
कल्कैर्मधुकजीवन्तीमधुकोत्पलजीवकैः ॥ २७१ ॥
द्राक्षामेदामहामेदावार्ताकीकण्टकारिका- ।
उच्चटात्रायमाणास्वंशृङ्गाटककसेरुकैः ॥ ३७२ ॥