सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 141, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 141

४.] गदनिग्रहः । १२३
षोडश सितापलानि तु चत्वारि घृतस्य माक्षिकस्याष्टौ ।
तिलतैलस्य द्विपलं चूर्णस्य पलानि पञ्च पञ्चानाम् ॥२२३॥
त्वक्क्षीरिपत्रत्वङ्नागेलानां च मिश्रयित्वा तु ।
गिरिजस्य षोडशपलैर्गुटिकाः कार्यास्ततोऽक्षसमाः ॥२२४॥
ताः शुष्का नवकुम्भे जातीपुष्पाधिवासिते स्थाप्याः ।
तासामेका काले भक्ष्या पेयापि वा सततम् ॥ २२५ ॥
क्षीररसदाडिमरसाः सुखासवा हिमकरशिशिरतोयानि ।
आलोडनाय तासामनुपाने वा प्रशस्यन्ते ॥ २२६ ॥
जीर्णे लघ्वन्नपयोजाङ्गलनिर्यूहयूषभोजी स्यात् ।
सप्ताहं भोजनमेवमतः परं भवेत्सर्वसामान्यम् ॥ २२७ ॥
भुक्त्वाऽपि भक्षितेयं यदृच्छया नावहेद्भयं किंचित् ।
निरुपद्रवा प्रयुक्ता सुकुमारैः कामिभिश्चैव ॥ २२८ ॥
संवत्सरं प्रयुक्ता हन्त्येषा वातशोणितं प्रबलम् ।
बहुवार्षिकमपि गाढं यक्ष्माणं चाढ्यवातं च ॥ २२९ ॥
ज्वरयोनिशुक्रदोषान् प्लीहार्शःपाण्डुहृद्ग्रहणीरोगान् ।
वर्ध्मवमिगुल्मपीनसहिक्काश्वासारुचिकासान् ॥ २३० ॥
जठरं श्वित्रं कुष्ठं षाण्ढ्यं क्लैब्यं क्षयं मदं शोषम् ।
उन्मादापस्मारौ वदनाक्षिशिरोगतात्रोगान् ॥ २३१ ॥
आनाहमतीसारमसृग्दरकामलां प्रमेहांश्च ।
गलगण्डापच्यर्बुदविद्रधिभगन्दरं रक्तपित्तं च ॥ २३२ ॥
अतिकार्श्यमतिस्थौल्यं स्वेदमपि श्लीपदं च विनिहन्ति ।
दंष्ट्राविषमतिभीमं गरलानि बहुप्रकाराणि ॥ २३३ ॥
मन्त्रौषधिप्रयुक्तानरियुक्तान् कौलिकांस्तथा सर्पान् ।
पापमलक्ष्मीं चेयं शमयेद्गुटिका शिवा नाम ॥ २३४ ॥
बल्या वृष्या धन्या कान्तियशःश्रीप्रजाकरी चेयम् ।
दद्यान्नृपवल्लभतां जयं विवादे मुखस्था च ॥ २३५ ॥