सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 142, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 142

१२४ आयुर्वेदग्रन्थमाला । [गुटिकाधिकारः
श्रीमान्प्रकृष्टमेधास्मृतिबुद्धिबलान्वितो दृढशरीरः ।
पुष्टयोजोवर्णैन्द्रियतेजोबलसंपदोपेतः ॥ २३६ ॥
वलीपलितरोगरहितो जीवेच्छरदां शतद्वयं पुरुषः ।
संवत्सरप्रयोगाद्, द्वाभ्यां शतानि चत्वारि ॥ २३७ ॥
सर्वामयजिन्महितं मुनिभिर्भक्त्या रसायनवरिष्ठम् ।
शिवगुटिकेति प्रथितमुक्तं गिरिशेन गणपतये ॥ २३८ ॥
पाण्डुरोगे लघुशिवगुटिका ।
कुटजत्रिफलानिम्बपटोलघननागरैः ।
भावितानि दशाहानि रसैर्द्वित्रिगुणानि वै ॥ २३९ ॥
शिलाजतुपलान्यष्टौ तावती सितशर्करा ।
त्वक्क्षीरीपिप्पलीधात्रीकर्कटाख्यान् पलोन्मितान् ॥२४०॥
विदार्याः कन्दमूलस्यां पलं युक्त्यात्रिगन्धिकात् ।
मधुत्रिफलसंयुक्तं कुर्यादक्षसमान् गुडान् ॥ २४१ ॥
दाडिमाम्बुपयःक्षीररसयूषसुरासवान् ।
तान् भक्षयित्वानुपिबेन्निरन्नो युक्त एव च ॥ २४२ ॥
पाण्डुकुष्ठज्वरप्लीहतमकार्शोभगन्दरान् ।
हृच्छूलशुक्रमूत्राग्निदोषशोफगलोदरान् ॥ २४३ ॥
कासासृग्दरपित्तासृक्छ्लेष्मगुल्मगलामयान् ।
नेत्रवर्त्मगतान् हन्युः सर्वरोगहराः शिवाः ॥ २४४ ॥
कुष्ठे वज्रकगुटिकाः ।
शैलस्य धातो रजसां शिलाभ्यः सूर्यप्रतापाज्जतुसंनिकाशम् ।
कृष्णं स्रवेन्मूत्रसमानगन्धि शिलाजतु प्राज्ञतमास्तमाहुः २४५
रूप्यादिधातोर्गलितं दृषद्वयस्तेभ्यः प्रशस्तं प्रवदन्ति पूर्वम् ।
विक्षोभयेत्तत्सुदिने सुपूते द्विपञ्चमूलीसलिले कटाह ॥२४६॥
लोहे समालोड्य दिवाकरस्य संतापनं रश्मिभिरेव कुर्यात् ।
प्रवीतवातेस्तरमुद्गृहीत्वा पुनः पुनस्तन्मथवोद्धरेच्च ॥ २४७ ॥