गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 140, कुल 286 में से
संदर्भ में पढ़ें१२२ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः
कोलाम्लं दाडिमं चेति चातुर्जातं च कार्षिकम् ।
चूर्णं गुडद्विगुणितं कृत्वा तु वटकान्भजेत् ॥ २११ ॥
गुल्मानाहोदरप्लीहपाण्ड्वर्शोग्रहणीगदान् ।
कासातीसारपार्श्वार्त्तिश्वासरोगं च कामलाम् ॥ २१२ ॥
मदात्ययवमीमेहहिक्कापीनसपित्तजान् ।
शूलं ज्वरं च शमयेन्मृदीत्तिकराः परम् ॥ २१३ ॥
कृष्णात्रिस्मृतियुक्तस्तु नित्यं जीवेत्समाः शतम् ।
विषूचिकायां जीरकाद्या गुटिका ।
जीरकभागद्वितयमेको भागस्तथैव मरिचस्य ।
द्वौ भागौ सिन्धूत्थाद्द्विङ्गोर्भागश्चतुर्थांशः ॥ २१४ ॥
कार्या गुडेन वटिकाऽजीर्णालसकौ विषूचिकाध्मानौ ।
हन्ति सुखोदकपीताऽनुलोमनी मूढवातस्य ॥ २१५ ॥
बृहच्छिवगुटिका ।
काले रवितापाह्वे कृष्णायसे शिलाजतुप्रवरम् ।
त्रिफलारससंयुक्तं त्र्यहं विशुद्धं पुनः शुष्कम् ॥ २१६ ॥
दशमूलस्य गुडूच्या रसे बलायास्तथा पटोलस्य ।
मधुकरसे गोमूत्रे प्रहरं भावयेत्क्रमश एकाहम् ॥ २१७ ॥
क्षीरेण तु तत्परतो भावयित्वा गवां पुनः शुष्कम् ।
सप्ताहं भाव्यं स्यात्क्वाथेनैषां यथालाभम् ॥ २१८ ॥
काकोल्यौ द्वे मेदे विदारि युग्मं शतावरी द्राक्षा ।
ऋद्धियुगर्भभवीरामुण्डीतिकाजीरकांशुमत्यश्च ॥ २१९ ॥
रास्नापुष्करचित्रकदन्तीभकणाकलिङ्गचव्याब्दाः ।
कटुका शृङ्गी पाठा चेति पलांशानि कार्याणि ॥ २२० ॥
अष्टद्रोणसाधितानां रसेन पादांशकेन भाव्यानि ।
गिरिजस्यैव भावितशुद्धस्य पलानि दश षट् च ॥ २२१ ॥
द्विपलं च विश्वधात्रीमागधिकाकर्पटाख्यमरिचानाम् ।
चूर्णपलं च विदार्या तालीसपलानि चत्वारि ॥ २२२ ॥