सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 139, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 139

४.] गदनिग्रहः । १२१
प्राप्तदायां सितां दत्त्वा चूर्णमानाच्चतुर्गुणाम् ।
अम्लपित्ते सशूले च प्रयोज्या गुदजातुरे ॥ २०१ ॥
अनुपानं प्रयोक्तव्यं व्याधौ श्लेष्मभवे पलम् ।
पलद्वयं चानिलजे पित्तजे तु पलत्रयम् ॥ २०२ ॥
वार्त्ताकगुटिका ।
चतुष्पलं सुधाकाण्डात्रिपलं लवणत्रयात् ।
वार्त्ताकात्कुडवं चार्काद्दन्तौ द्वे चित्रकात्पले ॥ २०३ ॥
दग्ध्वा रसेन वार्त्ताक्या वटिका भोजनोत्तरम् ।
कृता भुक्तं पचत्याशु कासश्वासार्शसां हिता ॥ २०४॥
विसूचिकाप्रतिश्यायहृद्रोगघ्नी च सा स्मृता ।
पाण्डुरोगेऽभयाद्यो मोदकः ।
अभया पिप्पलीमूलं मरिचं विश्वभेषजम् ।
पत्रत्वक्पिप्पलीमुस्ताविडङ्गामलकानि च ॥ २०५ ॥
एतानि समभागानि दन्ती च त्रिगुणा भवेत् ।
त्रिवृदष्टगुणा देया शर्करा चैव षड्गुणा ॥ २०६ ॥
मधुना मोदकान् कृत्वा मानतः कर्षसंमिताम् ।
एकैकं भक्षयेत्प्रातः शीतं चानुपिबेज्जलम् ॥ २०७ ॥
तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते ।
पाण्डुत्वकासविषमज्वरवह्निसादान्
प्लीहाक्षिरोगमथ चाश्मरिकामले च ।
हन्याद्रसायनमिदं भिषजा प्रयुक्त-
मल्पव्ययं बहुफलं सततोपयोज्यम् ॥ २०८ ॥
गुल्मेऽभयाद्या वटकाः ।
हरीतकीनां द्विपलं ग्रन्थिकं वेतसं तथा ।
पलार्धं चार्थकर्षांशा व्योषवृक्षाम्लबाष्पिकाः ॥ २०९॥
यवानी चाजमोदा च कारवीशठिपौष्करम् ।
चव्यसौवर्चलविडं हपुषाजाजिधान्यकम् ॥ २१० ॥
११