सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 138, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 138

१२० आयुर्वेदियग्रन्थमाला । [गुटिकाधिकारः
स्वेच्छाहारविधौ च पानविषये शीतातपे मैथुने ।
युक्तं नास्ति विरोधितं च सततं प्रोक्ता पुरा ब्रह्मणा १९१
पित्ते कल्याणक गुटिका ।
द्राक्षां नियोज्य विधिना द्विगुणां शिवायाः
संचूर्ण्य ह्यक्षफलमात्रमितां प्रभाते ।
कल्याणकारककृतां गुटिकामिमां यः
संसेवते भवति तस्य हि पित्तनाशः ॥ १९२ ॥
हृद्रोगरक्तविषमज्वरपाण्डुवान्ति-
कुष्ठानि कासकमलारुचिमेहमुख्याः ।
आनाहगुल्मपिटकप्रभवा विकाराः
सर्वेऽपि ते विलयमाशु सुखेन यान्ति ॥ १९३ ॥
अर्शसि प्राणदा गुटिका ।
त्रिपलं शृङ्गवेरस्य चतुर्थं मरिचस्य च ।
द्वे पले पिप्पलीूलाच्चित्रकस्य पलं तथा ॥ १९४ ॥
सूक्ष्मैला कर्षमेकं तु कर्षं चोचमृणालयोः ।
अजमोदामजाजीं च सूक्ष्माण्येकत्र चूर्णयेत् ॥ १९५ ॥
गुडात्पलानि त्रिंशच्च सर्वमेकत्र कारयेत् ।
अक्षप्रमाणगुटिकाः प्राणदा इति विश्रुताः ॥ १९६ ॥
पूर्वं भक्ष्यास्तु पश्चाच्च भोजनस्य यथाबलम् ।
मद्यं मांसरसं यूषं क्षीरं तोयं पिबेदनु ॥ १९७ ॥
हन्यादशांसि सर्वाणि सहजान्यसृजान्यपि ।
वातपित्तकफोत्थानि सन्निपातोद्भवानि च ॥ १९८ ॥
'पानात्यये मूत्रकृच्छ्रे वातरोगे गलग्रहे ।
मन्दाग्नौ पाण्डुरोगे च तथैव विषमज्वरे ॥ १९९ ॥
कृमिहृद्रोगिणां चैव एताः स्युरमृतोपमाः ।
शृङ्ग्याः स्थानेऽभया देया विड्ग्रहे पित्तवायुजे ॥ २०० ॥