सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 137, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 137

१.] गदनिग्रहः । ११५
महाकल्याणको ह्येष रसायनमनुत्तमम् ।
ग्रहण्यां कल्याणको गुडः ।
कृष्णात्वग्ग्रन्थिकं वह्निं दीप्यकोषणसैन्धवम् ।
कृमिघ्नत्रिफलाधान्यकोलाजाज्यजमोदकाः ॥ १८३ ॥
पालिकानि त्रिवृच्चूर्णतैलयोश्च पलाष्टकम् ।
रसप्रस्थत्रयं धात्र्या गुडस्यार्धशतं क्षिपेत् ॥ १८४ ॥
एतत्कल्याणको नाम ग्रहणीपाण्डुजित्परम् ।
ग्रहण्यां यवान्याद्या गुटिका ।
यवानीं धान्यकं बिल्वं चविकात्रुटिवल्कलम् ।
अम्लवेतसवृक्षाम्लं त्रिफला शिखिग्रन्थिकम् ॥१८५॥
सौवर्चलं सैन्धवं च हपुषां च हरीतकीम् ।
यष्टिकां सातलां स्पृक्कां पलमानानि चूर्णयेत् ॥१८६॥
गुडस्य तु पलान्यत्र दापयेद्विगुणानि तु ।
यवानीगुटिका ह्येषा ग्रहणीनाशनी परा ॥ १८७ ॥
चन्द्रप्रभा गुटिका ।
कीटघ्नेभकणाद्विमागधिजतामुस्ताशठीताप्यकं
भूनिम्बत्रिफलासुराह्वचविकाव्योषं वचा धान्यकम् ।
रात्रीयुग्मविषात्रिवृत्रिलवणं क्षारत्रिजातान्वितं
कर्षं कर्षमतः पुराद्दशपलं शैलेयकाष्टान्वितम् ॥१८८॥
लोहात्तत्र सिताचतुष्पलयुतं सार्द्धांशिकायाः पलं
हन्त्यर्शांसि षडेव गुल्ममजयं शोषं क्षयं कामलाम् ।
नाडीमर्मगदाञ्जलोदररुजो दीर्घज्वरान्विद्रधीन्
यक्ष्माणं सभगन्दरं कफमरुत्पित्तोद्भवं पाण्डुताम् १८९॥
तं तं व्याधिसमूहशुक्रविकृतीन्ग्रन्थ्यर्बुदश्लीपदान्
मेहांश्शुक्रविनाशमश्मरीरुजस्त्वन्यांश्च देहस्थितान् ।
व्याधीन्हन्ति दृढाननेन विधिना चन्द्रप्रभा सेविता
मन्दाग्नेः परमं प्रदीपनमियं कुर्याज्जरां जर्जराम्॥१९०॥