गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 136, कुल 286 में से
संदर्भ में पढ़ें११८ आयुर्वेदौयग्रन्थमाला । [गुटिकाधिकारः
गुडपाकविधिः ।
यदा दर्वीप्रलेपः स्याद्यावद्वा तन्तुली भवेत् ।
तोयपूर्णे यदा पात्रे क्षिप्तो न प्लवते गुडः ॥ १७१ ॥
क्षिप्तोऽप्सु निश्चलस्तिष्ठेत्पतितश्च न शीर्यति ।
एष पाको गुडादीनां सर्वेषां परिकीर्तितः ॥ १७२ ॥
सुखमर्द्यः सुखस्पर्शो गन्धवर्णरसान्वितः ।
पीडितो भजते मुद्रां गुडः पाकमुपागतः ॥ १७३ ॥
धातुक्षये महाकल्याणको गुडः ।
पिप्पलीं पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ।
धान्यकान् सविडङ्गानि यवानीमरिचानि च ॥ १७४ ॥
त्रिफलां चाजमोदां च नीलिनीं जीवकं तथा ।
सौवर्चलं सैन्धवं च सामुद्रं चौद्भिदं वचाम् ॥१७५॥
आरग्वधं त्वचं पत्रं सूक्ष्मैलानृपकुञ्चकम् ।
नागरेन्द्रयवांश्चैव षड़िंशत्येककार्षिकम् ॥ १७६ ॥
मृद्वीकायाः प्रधानाया दद्यात्पलचतुष्टयम् ।
त्रिवृतायाः पलान्यष्टौ रसमामलकस्य च ॥ १७७ ॥
प्रस्थं द्विगुणितं कृत्वा शनैर्मृद्वग्निना पचेत्
यदा पक्कं विजानीयात्तदैनमवतारयेत् ॥ १७८ ॥
उदुम्बरं ह्रामलकं बदरं वा प्रयोजयेत् ।
यथाबलं प्रयुञ्जीत समीक्ष्य मतिमान् भिषक् ॥१६९॥
सर्वांश्च ग्रहणीदोषान्प्रमेहांश्चैव विंशतिः ।
अर्शांसि वातगुल्मांश्च कुष्ठानाहमगन्दरम् ॥ १८० ॥
उरोघातं प्रतिश्यायं हृद्रोगं चैव नाशयेत् ।
धातुक्षीणे बलक्षीणे स्त्रीभिः क्षीणे क्षये तथा ॥ १८१॥
ज्वराणां चैव सर्वेषां वन्ध्यानां चाप्यपत्यदम् ।
रूपौदार्यस्वरौदार्यमेधामाविन्दते स्थिराम् ॥ १८२ ॥