सामग्री पर जाएँ
सर्वकोश
गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

पृष्ठ 132, कुल 286 में से

संदर्भ में पढ़ें
पृष्ठ 132

११४ आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः]
कुष्ठे विषगुटिकाः ।
त्रिफलाव्योषयष्ट्याह्वविषं तुल्यानि पेषयेत् ।
भृङ्गाम्बुना तु गुटिकाः कुर्याच्चणकसंमिताः ॥ १२८ ॥
एकैकां वर्धयेत्तावदष्टावसान्न वर्धयेत् ।
आस्तिकेन कृतो योगो विजयेद्वातजान् गदान्॥१२९॥
अशीतिं विंशतिं श्लेष्मभवांस्तप्त महाक्षयान् ।
अष्टादशैव कुष्ठानि सन्नमग्निं च दीपयेत् ॥ १३० ॥
कुष्ठे लाङ्गलीगुटिकाः ।
लाङ्गलीत्रिवृतालोहचूर्णं दशपलं पृथक् ।
त्रिंशत्तु गुटिकाः पथ्याः कुर्याद्भृङ्गरसप्लुताः ॥ १३१ ॥
छायाशुष्कां च तत्रार्धां गुटिकां भक्षयेत्ततः ।
जीर्णे रसेन रूक्षेण पेया, पूर्वं न भोजयेत् ॥ १३२ ॥
यन्त्रितो ब्रह्मचर्याद्यैः क्रमेण गुटिकामपि ।
खादेत्प्रातस्तु मासैकं भवेत्कामचरः क्रमात् ॥ १३३ ॥
एवं सर्वाणि कुष्ठानि जयत्यतिबलान्यपि ।
धीमेधास्मृतियुक्तस्तु नित्यं जीवेत्समाः शतम् १३४
कण्ड्वां त्रिजातगुटिकाः ।
त्रिजातत्रिफलाव्योषं सूक्ष्मचूर्णं तु कारयेत् ।
तत्तुल्यं त्रिवृताचूर्णं शर्कराक्षौद्रमेव च ॥ १३५ ॥
बद्ध्वात्र मोदकान्द्वै तान् भक्षयेच्च यथाबलम् ।
विरेक एष प्रबलस्तथा कण्डूविनाशनः ॥ १३६ ॥
मुखरोगे खदिरगुटिका ।
तुलां खदिरसारस्य द्विगुणां त्वरिमेदतः ।
प्रक्षाल्य जर्जरीकृत्य चतुर्द्रोणेऽम्भसः पचेत् ॥ १३७॥
द्रोणशेषं कषायं तु पूत्वा भूयः पचेच्छनैः ।
ततस्तस्मिन्घनीभूते चूर्णं कृत्वाऽक्षभागिकम् ॥ १३८ ॥
चन्दनं पद्मकोशीरं मञ्जिष्ठाधातकीघनम् ।
प्रपौण्डरीकयष्ट्याह्वत्वगेलापत्रकेसरम् ॥ १३९ ॥