गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 131, कुल 286 में से
संदर्भ में पढ़ें४.] गदनिग्रहः । ११३
ज्वरातिसारं तन्द्रां च सेविता हन्ति वेगतः ।
कुष्ठे तुवरास्थिवटकाः ।
हरीतकी शक्रयवाः पटोलफलपुष्करम् ॥ ११६ ॥
बाकुची राजवृक्षश्च वह्न्यर्कमूलमेव च ।
आवर्तकीफलं चैव भागवृद्ध्या यथोत्तरम् ॥ ११७ ॥
यावन्त्यमूनि तुल्यानि तुवरास्थां च संभवा ।
मज्जा खदिरसंसिद्धा गोमूत्रकथिता पुनः ॥ ११८ ॥
सैर्वरैभिः कर्षमात्रां गुटिकां कारयेद्भिषक् ।
प्राश्यैनामनुगोमूत्रं पिबेच्चापि पलत्रयम् ॥ ११९ ॥
जीर्णज्वरे तत्क्षीणे वा घृतमुष्णोदनं भजेत् ।
सप्ताहं तिलतैलेन निष्पावकङ्गुसेवनम् ॥ १२० ॥
तक्रानुपानं मासं च तत्परं सर्वभुग्भवेत् ।
क्षाराम्लवर्जी जयति सर्वकुष्ठानि मानवः ॥ १२१ ॥
कुष्ठे खदिरादिवटिका ।
खदिराद्वीजकान्निम्बात्कुटजाच्छाळसारतः ।
पञ्चाशत्पलिकान् भागान् गोमूत्रस्याढकद्वयम् ॥१२२॥
जलद्रोणद्वये चापि सुगुप्तं दिवसान् दश ।
दशरात्रस्थितं तत्त कषायमनुसाधयेत् ॥ १२३ ॥
अध्यर्धाढकशेषं तु पुनरग्नावधिश्रयेत् ।
चूर्णीकृतान्यथेमानि भेषजान्यत्र दापयेत् ॥ १२४ ॥
भल्लातकानि त्रिफलां विडङ्गानि वचां तथा ।
चित्रकावल्गुजौ चैव भागान् दशपलांशकान् ॥१२५॥
दद्याद्वायसिमूलाच्च पलानां पञ्चविंशतिः ।
घनीभूतं तु तं ज्ञात्वा गुटिकां कारयेद्भिषक् ॥ १२६॥
तां भक्षयेत कुष्ठार्तः पथ्यभोजी जितेन्द्रियः ।
कुष्ठानि नाशयत्येषा छिन्नाभ्राणीव मारुतः ॥ १२७॥