गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 130, कुल 286 में से
संदर्भ में पढ़ें११२ आयुर्वेदग्रन्थमाला । [गुटिकाधिकारः
ततोऽक्षमात्रा गुटिका मद्ययूषपयोरसैः ।
पीताऽम्भसा भक्षिता वा सर्वान् हन्याद्गुदोद्भवान् १०४
शूलं पानात्ययं छर्दिं प्रमेहं विषमज्वरान् ।
गुल्मं पाण्डुरुजं शोफं हृद्रोगं ग्रहणीगदान् ॥ १०५ ॥
कासहिकारुचिश्वासकृम्यतीसारकामलाः ।
मन्दाग्नितां मूत्रकृच्छ्रं हन्याच्छोफं च सा भृशम् १०६
एतदेव भवेच्चूर्णं सिताचूर्णचतुर्गुणम् ।
सपित्तेषु विकारेषु विशेषेणामृतोपमम् ॥ १०७ ॥
सा चैव गुटिका पथ्या फलत्रयविशेषिता ।
शोफार्शोग्रहणीरोगपाण्डुशूलापहारिणी ॥ १०८ ॥
क्षयसप्रे लघुतालीसादिवटिका ।
तालीसपत्रमरिचंचविकानां पलं पलम् ।
कृष्णा तन्मूलयोर्द्वे द्वे पले शुण्ठीपलत्रयम् ॥ १०९ ॥
चातुर्जातमुशीरं च कर्षांशं श्लक्ष्णचूर्णितम् ।
तत्र त्रिंशत्पलं दद्यात्कथितादमलाद्गुडात् ॥ ११० ॥
तालीसवटका ह्येते क्षयघ्ना दीपनाः परम् ।
लवङ्गाद्या गुटिका ।
पलार्धं तु लवङ्गस्य तालीसत्रुटिवल्कलम् ॥ १११ ॥
यवानीचव्यकाजाजीधान्यकं च पलोन्मितम् ।
द्विपलं मरिचं कृष्णा वृक्षाम्लं साम्लवेतसम् ॥११२॥
कृष्णायाश्च जटा शुण्ठी पथ्या च कुडवोन्मिता ।
एतत्सर्वं समाहृत्य त्रिगुणेन गुडेन तु ॥ ११३ ॥
ततोऽर्धपलिकाः कार्या गुटिकास्तु भिषग्वरैः ।
एकैकश्चस्तास्तु पिबेन्मद्यतक्ररसासवैः ॥ ११४ ॥
भक्षिता येन तस्यार्शःपाण्डुहृत्पार्श्वशूलनुत् ।
कासगुल्मारुचिश्वासहिक्कामयगलग्रहान् ॥ ११५ ॥