गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 128, कुल 286 में से
संदर्भ में पढ़ें११० आयुर्वेदीयग्रन्थमाला । [गुटिकाधिकारः
विनिहन्ति भक्ष्यमाणा गुल्मार्शोविहिसादगदान् ॥ ८० ॥
अतिसारेऽभयाद्या वटकाः ।
अभयागुडपिप्पल्यः समांशा वटकीकृताः ।
मक्षिता हन्त्यतीसारमर्शःपाण्ड्वामयज्वरान् ॥ ८१ ॥
सर्वातिसारेऽङ्कोलवटिका ।
पलमङ्कोलमूलस्य पाठां दार्वीं च तत्समाम् ।
पिष्ट्वा तण्डुलतोयेन वटिकामक्षसंमिताम् ॥ ८२ ॥
छायाशुष्कां पिबेत्क्षिप्रं पिष्ट्वा तण्डुलवारिणा ।
वातपित्तकफप्रायान् द्वन्द्वजान् सान्निपातिकान् ॥८३॥
हन्यात्सर्वातिसारांस्तु वटिकेयं प्रयोजिता ।
सर्वातिसारे बृहदङ्कोलवटिका ।
सदार्व्यङ्कोलपाठानां मूलं तु कुटजस्य च ।
शाल्मलेरथ निर्यासो धातकौरौध्रदाडिमम् ॥ ८४ ॥
पिष्ट्वाऽक्षसंमितान् कृत्वा वटकांस्तण्डुलाम्भसा ।
तानेव मधुसंयुक्तानेकैकान् प्रातरुत्थितः ॥ ८५ ॥
पिबेदत्यन्तमापन्नो विधिसर्गेण मानवः ।
अङ्कोलवटका नाम्ना सर्वातीसारनाशनाः ॥ ८६ ॥
अतिसारे कट्वङ्गाद्या गुटिका ।
पलानि दश कट्वङ्गाङ्गे पले पञ्चकत्वचः ।
स्थिराया बिल्वपेश्याश्च पलान्यष्टौ पृथक् पृथक् ॥८७॥
कटुकादाञ्जनोशीररोघ्रयष्ट्याह्वमुस्तकान् ।
कालीयकं व्याघ्रनखं हरिद्रारक्तचन्दनम् ॥ ८८ ॥
करञ्जफलचूतास्थिदाडिमत्वग्विधुन्तुकाः
केतक्यर्जुनपुष्पाणि वल्कान्यक्षपियालयोः ॥ ८९ ॥
समङ्गा शालवीजानि ग्रन्थिश्चाप्यरिमेदतः ।
फलस्य, वत्सकफलं संक्षुद्य पलसंमितम् ॥ ९० ॥
द्विद्रोणं विपचेदम्भः पूत्वा क्वाथं पचेदनु ।
पिण्डमक्षसमं तस्माद्घृतमादाय बुद्धिमान् ॥ ९१ ॥