गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)
Gadanigraha of Acharya Sodhala with Commentary
आचार्य सोढल द्वारा
पृष्ठ 127, कुल 286 में से
संदर्भ में पढ़ें.] गदनिग्रहः । १०९
त्रिफला कणा समूला तालीसारुष्करकृमिघ्नानाम् ।
भागा महौषधसमा दहनांशा तालमूली च ॥ ७० ॥
भागः सूरणतुल्यो दातव्यो वृद्धदारुकस्यापि ।
भृङ्गेले मरिचांशे चूर्णेऽस्मिन्योजयेन्मतिमान् ॥ ७१ ॥
द्विगुणेन गुडेन युतः सेव्योऽयं मोदकः प्रकामध्नैः ।
गुरुवृष्यमोज्यरहितेष्वितरेषूपद्रवान्कुरुते ॥ ७२ ॥
भस्मकमनेन जनितं पूर्वमगस्त्यस्य योगराजेन ।
भीमस्य मारुतेरपि येन ते महाशना जाताः ॥ ७३ ॥
अग्निबलवृद्धिहेतुर्न केवलं सूरणो महावीर्यः ।
प्रभवति शस्त्रक्षाराग्निभिर्विनाप्यर्शसामेषः ॥ ७४ ॥
श्वयथुश्लीपदगरजिद्रहणीं च कफानिलाजाताम् ।
नाशयति वलीपलितं मेधां कुरुते वृषत्वं च ॥ ७५ ॥
हिक्कां कासं श्वासं सराजयक्ष्मप्रमेहांश्च ।
प्लीहानमप्यथोग्रं हन्ति च रसायनं पुंसाम् ॥ ७६ ॥
अर्शसि लघुसूरणवटिकाः ।
चूर्णीकृताः षोडश सूरणस्य भागास्ततोऽर्धा नवचित्रकस्य ।
महौषधाद्वौ मरिचस्य चैको गुडेन दुर्नामजयाय पिण्डी ॥७७॥
अर्शोरोगे मरिचाद्या गुटिकाः ।
मरिचपिप्पलिनागरचित्रकान्
क्रमविवर्धितभागसुचूर्णितान् ।
शिखिचतुर्गुणसूरणयोजितान्
कुरु गुडेन गुडान् गुदजच्छिदे ॥ ७८ ॥
अर्शसि कलिङ्गाद्या गुटिकाः ।
कलिङ्गलाङ्गलीकृष्णायश्चपामार्गपिप्पली- ।
भूनिम्बसैन्धवगुडैर्गुडा गुदजनाशनाः ॥ ७९ ॥
गुल्मे गुडवटकाः ।
गुडविश्वौषधपथ्यामागधिकादाडिमैः कृता गुटिकाः ।
१०