द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 98, कुल 176 में से
संदर्भ में पढ़ें६० द्रव्यगुणः।
हस्तिनीनां पयो बल्यं गुरु स्थैर्य्यकरं वरम्।
ईषद्रूक्षोष्णलवणमौष्ट्रकं दीपनं लघु ॥
शस्तं वातकफानाहक्रिमिशोफोदरार्शसाम् ॥७॥
उष्णमैकशफं बल्यं शाखावातहरं पयः।
ईषदम्लं स्वादु रूक्षं लवणानुरसं लघु ॥ ८ ॥
नार्य्यास्तु मधुरं स्तन्यं कषायानुरसं हिमम्।
नस्याश्च्योतनयोः पथ्यं जीवनं लघु दीपनम् ॥६॥
क्षीरसन्तानिका वृष्या स्निग्धा पित्तानिलापहा १०
पयोऽभिष्यन्दि गुर्वामं प्रायशः परिकीर्त्तितम्।
तदेवोक्तं लघुतरमनभिष्यन्दि वै शृतम् ॥ ११ ॥
महिषीक्षीरं गव्यस्नेहादूनं हीनम्। गव्यक्षीरात् पुनः स्नेहा-
धिकमेवेत्यर्थ इति चन्द्रिका। अन्ये तु स्नेहान्यूनमिति पठित्वा
स्नेहाधिकमित्यर्थं कुर्व्वन्ति ॥ ६ ॥
एकः शफः खुरो यासां ता एकशफाः। अत्राश्वाया इति
वक्तव्ये यदैकशफमिति सामान्यशब्दप्रयोगं करोति तद्बेगसरी-
प्रभृतीनामप्येकशफानां क्षीरग्रहणार्थम्। शाखावातहरमि-
त्यत्र केचित् शाखाशब्देन बाहुसक्थ्यौ चाहुः। अन्ये तु
वक्रादीनाहुः। धान्याम्लस्येवोभयत्राधारशक्तिप्रभावेण परस्पर-
विरुद्धकार्य्यद्वयं भवति। तद्यथा वह्निरन्तः पित्तहरकरत्वम्।
एवं शाखागतवातहरत्वम्। कुक्षिगतवातकरत्वञ्चास्याधारशक्ति-
प्रभावेण मन्तव्यमित्याहुः ॥ ८ ॥
आश्च्योतनमक्षिपूरणम् ॥ ६ ॥
क्षीरसन्तानिका दुग्धसरः ॥ १० ॥