सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 99, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 99

[Header] द्रव्यगुणः। ६१

वर्जयित्वा स्त्रियाः स्तन्यमाममेव हि तद्धितम् ॥१२
धारोष्णं गुणवत् क्षीरं विपरीतमतोऽन्यथा ॥१३॥
तदेवातिशृतं सर्वं गुरु बृंहणमुच्यते ॥ १४ ॥
अनिष्टगन्धमम्लञ्च विवर्णं विरसञ्च यत् ।
वर्ज्यं सलवणं क्षीरं यच्च विग्रथितं भवेत् ॥१५॥
दध्यम्लं मधुरं ग्राहि गुरुष्णं वातनाशनम् ।
मेदःशुक्रबलश्लेष्मपित्तरक्ताग्निशोफकृत् ॥
असंस्कृतस्य तथा संस्कृतस्य क्षीरस्य क्रमेण गुणमाह पय
इत्यादि । आममित्यशृतम् ॥ ११ ॥
स्त्रीस्तन्यस्य पुनः शृतत्वं दोषायेत्याह वर्जयित्वेति ॥ १२ ॥
सर्वक्षीराणामेव दोहकालधारापातोष्णानां गुणमाह । धा-
रोष्णमिति सद्योदोहधारासम्बन्धोष्णतायुक्तम् । गुणवदिति
प्रशस्तरसायनत्वगुणयुक्तम् । यदुक्तं भोजे ।
पयोऽभिष्यन्दि गुर्वामं शृतोष्णं कफवातजित् ।
शृतशीतन्तु पित्तघ्नं सद्यो दुग्धं रसायनम् ॥
इति । विपरीतमतोऽन्येति न तथा प्रशस्तगुणम् ॥ १३ ॥
अतिशृतमित्यतिपाकेन घनीभूतम् ॥ १४ ॥
क्षीरस्यैवावस्थाविशेषेण वर्जनीयतामाह अनिष्टगन्धमिति ।
अम्लत्वं सलवणत्वञ्चैव विदाहात् । गवादीनामत्यर्थलवणसेव-
नाद्वा सलवणम् । विग्रथितमिति अम्लादियोगेन विग्रथित-
तामापन्नम् ॥ १५ ॥
क्षीरमनु क्षीरकार्य्यतया तद्विकारेऽभिधातव्ये मङ्गल्यतया
प्रथमं दधिगुणमाह दधीति ।
अत्राम्लमधुरत्वेन सुजातत्वं लक्षयति। मन्दजातस्यास्य अनम्ल-