द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 97, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । ८८
छागं कषायमधुरं शीतं ग्राहि पयो लघु ।
रक्तपित्तातिसारघ्नं क्षयकासगरापहम् ॥
अजानामल्पकायत्वात् कटुतिक्तानिषेवणात् ।
नात्यम्बुपानाद् व्यायामात् सर्वव्याधिहरं पयः॥४॥
मेषीक्षीरं गुरु स्वादु स्निग्धोष्णं कफपित्तकृत् ।
शुद्धेऽनिले भवेत् पथ्यं सेके चानिलशोणिते ॥५॥
महिषीणां गुरुतरं गव्याच्छीततरं पयः ।
स्नेहादूनमनिद्राणामत्यग्नीनां हितञ्च तत् ॥६॥
सर्व्वव्याधिहरमिति। सर्व्वदोषहरं कारणे कार्य्योपचारात्
व्याधिशब्दो दोषे वर्त्तते । अतएव चरकेणोक्तम् । समानो हि
रोगशब्दो दोषेषु व्याधिषु च वर्त्तते । किंवा सर्व्वशब्दो विपुल-
वचनः ॥ ४ ॥
उष्णमिति। सामान्योक्तक्षीरशीतगुणापवादरूपम्। एव-
मन्यत्राप्येवंजातीये व्याख्येयम् । कफपित्तकृदिति । कफपित्त-
करम् । पित्तश्लेष्मलमाविकमिति चरकवचनात् । शुद्धेऽनिले
इति। दोषान्तरेणासम्पृक्ते अनावृते च । अनिलशोणिते शोणि-
तावृतवाते सेके परिषेकनिमित्तं हितमित्यर्थः ॥ ५ ॥
महिषीक्षीरं गव्यात् क्षीरात् गव्यक्षीरमपेक्ष्य गुरुतरमति-
शयेन गुरु तथा शीततरञ्च स्नेहात् पुनरूनं हीनमित्यर्थः।
इदं पुनरसङ्गतं प्रत्यक्षविरोधात् । प्रत्यक्षमेव महिषीक्षीरादधि-
कमिव घृतं दृश्यते तथा जतूकूर्णेऽप्युक्तम् । गुरु शीतस्निग्धतरं
माहिषमतिबल्यंबृंहणञ्चाग्न्यामिति । सुश्रुतेऽप्युक्तं पद्यते
स्निग्धतरमिति । तस्मादत्र गव्यस्नेहादूनमिति योज्यम् । तेन