सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 96, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 96

८८ द्रव्यगुणाः।
क्षीरमष्टविधं गव्यमाजमौरभमाहिषे ।
कारेणवमथौष्ट्रञ्च वाड़वं मानुषं तथा ॥ १ ॥
क्षीरं स्वादुरसं स्निग्धमोजस्यं धातुवर्द्धनम् ।
वातपित्तहरं वृष्यं श्लेष्मलं गुरु शीतलम् ॥ २ ॥
गोक्षीरमनभिष्यन्दि स्निग्धं स्वादु रसायनम् ।
रक्तपित्तहरं शीतं मधुरं रसपाकयोः ॥
जीवनीयं तथा वातपित्तघ्नं परमं मतम् ॥ ३ ॥
यत्र यत्र जलस्यातियोगो न कार्य्यस्तदाह अरोचक इ-
त्यादि । मन्दमतिस्तोकम् ॥ ३८ ॥
इति पानीयवर्गः ।
————
पयःक्षीरसंज्ञासामान्यात् पय इव जीवनत्वादिगुणयोगाच्च
तोयवर्गानन्तरं क्षीरवर्गः प्रस्तूयते । तत्र गव्यस्य प्रधानत्वात्
तत्पूर्वमष्टविधं क्षीरं निर्द्दिशति क्षीरमिति । यद्यपि खङ्गि-
मृगादीनामपि क्षीरमस्ति तथापि तस्यानुपयोगादिहानभि-
धानम् । तन्लेष्वप्यष्टावेव क्षीराख्युक्तानि ॥ १ ॥
तत्र क्षीरसामान्यगुणमाह क्षीरमिति । धातुवर्द्धनत्वेन
वृष्यत्वे सिद्धे वृष्यमिति वचनं अतिशयेन शुक्रजनकत्वं बोध-
यति ॥ २ ॥
सामान्यगुणमभिधाय गव्यादिविशेषगुणमाह गोक्षीर-
मिति । अनभिष्यन्दीति । नञ् ईषदर्थे । सुश्रुते अल्पाभिष्य-
न्दीति वचनात् । अभिष्यन्दित्वञ्च दोषधातुमलस्रोतसां क्लेद-
जनकत्वम् । रक्तपित्तहरत्वमवस्थाविशेषे ज्ञेयम् ॥ ३ ॥