सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 95, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 95

द्रव्यगुणाः। ८७
अरोचके प्रतिश्याये प्रसेके श्वयथौ क्षये ।
मन्दाग्नावुदरे कुष्ठे ज्वरे नेवामये तथा ॥
व्रणे च मधुमेहे च पानीयं मन्दमाचरेत् ॥ ३८ ॥
इति पानीयवर्गः ।
———
हेमन्तशिशिरे तुल्ये शिशिरेऽल्पविशेषणम् ।
तस्माद्धैमन्तिकः सर्व्वः शिशिरे विधिरिष्यते ॥
इति। तथा कौपं प्रावृषीत्यत्र प्रावृट्शब्देन वर्षाप्रथम-
कालः श्रावणप्रथमरूपो बोध्यः। सरस्तड़ागैत्यादि हेमन्ते सारसं
कषायलघुत्वात्। ताड़ागञ्च कषायतया कटुपाकितया च
चीयमानकफहरम्। तथा वसन्ते कौपं सक्षारत्वात् चौण्डं
रूक्षत्वाच्च कफहरं युज्यते। ग्रीष्मे प्रास्रवणं पथ्यत्वात् शैत्याच्च।
औद्भिदं मधुरत्वाच्च पित्तशमनं युक्तम्। कौपं प्रावृषीति तदा-
काशजलेनानतिजुष्टत्वात्। सर्व्वं वा संहृतमिति सर्व्वस्यैवाति-
वर्षणेन दुष्टत्वात्। संस्कारः क्वथनरूपः कार्य्य इत्यर्थः ॥ ३७ ॥
यादृशं जलं नोपयुज्यते तदाह इठेत्यादि। इठकुम्भिका
पाङ्गा इति ख्यातः। दोषलमिति स्पर्शादिदोषयुक्तम्। तदुक्तं
जलस्य स्पर्शरूपरसगन्धवीर्य्यविपाकदोषाः षड्भवन्ति। तत्र
खरता पैच्छिल्यमौष्ण्यं दन्तग्राहिता च स्पर्शदोषाः। पङ्क-
सिकता शैवालवर्णता रूपदोषाः। व्यक्तरसता रसदोषः। अनि-
ष्टगन्धता गन्धदोषः। यदुपयुक्तं तृष्णागौरवशूलकफप्रसेका-
नापादयति स वीर्य्यदोषः। यदुपयुक्तं चिराद्विपच्यते विष्टम्भयति
च स विपाकदोष इति। साधनाहृत इति साधनं संस्कारः
संस्कारश्चाग्निक्कथनसूर्य्यतापादिभिः सुश्रुतोक्तैः कार्य्यः ॥ ३७ ॥