द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 94, कुल 176 में से
संदर्भ में पढ़ें८६ द्रव्यगुणः।
वाय्वर्ककिरणास्पृष्टं न पेयं साधनावृते ॥ ३७ ॥
श्रौतं वा कौपं सारसमेव वेत्यनेन चरके श्रावणभाद्ररूपवर्षा-
स्वेव माहेन्द्रजलोपयोग उक्तः। न च तत्रापि भाद्राश्विनौ
वर्षा इति वक्तुं शक्यते। तस्याशितीयोक्तर्त्तुक्रमानुसारेणैव ऋतु-
चर्य्याभिधानस्य तत्रोपक्रान्तत्वात्। अन्यथा प्रकरणविरोधः
स्यात्। अन्ये तु ऋत्वन्तरगृहीतमान्तरीक्षं जलं वर्षासु पेय-
मित्याहुः। अस्मद्गुरुचरणास्तु द्विविधं हि आन्तरीक्षं लूतादि-
सम्बद्धासम्बद्धञ्च। तत्राद्यं सदोषं तत्परमेव जतूकर्णवचनमव-
गन्तव्यम्। द्वितीयन्तु निर्दोषं न च वर्षासु सर्पादिविषसहित-
मेव जलं मेघा वर्षन्तीत्यागमोऽस्ति। एतदभिप्रायेणैव सुश्रु-
तादौ गाङ्गसामुद्रव्यवस्था। तेन वर्षास्वेव यदा सविषप्राण्यादि-
सम्बन्धो भवति तदा सदोषं सामुद्रशब्दाभिधेयम्। अन्यथा
तु निर्दोषं गाङ्गशब्दाभिधेयम्। तद्वर्षास्वपि ग्राह्यमेव अतएव
गाङ्गसामुद्रपरीक्षापि तत्रोपपन्ना। अन्यथा वर्षाव्यतिरिक्त-
काले लूतादिसम्बन्धस्य कालमहिम्नैवापगतत्वेन परीक्षाया
अकिञ्चित्करत्वादित्याहुः। प्रपञ्चितमेतच्चरकतत्त्वदीपिकाया-
मेव अस्माभिरिति नेह प्रतन्यते।
अगस्त्योदयनैर्मल्यात् सर्वं शरदि शस्यते।
इत्यत्र शरच्छब्देनाश्विनस्याप्युपग्रहो बोध्यः। चरके
तस्याशितीये अन्यत्रापि आश्विनकार्त्तिकरूपशरद्येव सर्व-
जलप्रसादस्योक्तत्वात्। नैर्मल्यहेतोरगस्त्योदयस्य तत्रापि विद्य-
मानत्वाच्च। किंवा माघादिमासद्वयात्मकत्तुक्रमानुसारेण वर्षा-
दयोऽत्र बोध्याः। तथा सति शरच्छब्देनाश्विनकार्त्तिकयोरेव
ग्रहणम्। अस्मिंस्तु पक्षे हेमन्तविधानेन हेमन्ततुल्यतया शि-
शिराभिधानं समाधेयम्। यदुक्तम्