सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 88, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 88

८० द्रव्यगुणाः ।
वैकिरं लघु सक्षारं श्लेष्मलं वह्निदीपनम् ॥१५॥
कैदारं पाल्वलं स्वादु विपाके गुरु दोषलम् ॥१६॥
सामुद्रं लवणं विस्रं सर्वदोषप्रकोपणम् ॥ १७ ॥
आनूपं वार्य्यभिष्यन्दि मधुरं पिच्छिलं गुरु ।
स्निग्धं वह्निहरं सान्द्रं जाङ्गलं वार्य्यतोऽन्यथा ॥१८॥
साधारणं वारि शीतं दीपनं मधुरं लघु ॥१९ ॥
पश्चिमोदधिगाः शीघ्रवहा याश्चामलोदकाः ।
पथ्याः समस्तास्ता नद्यो विपरीतास्ततोऽन्यथा॥२०॥
औद्भिदं निम्नप्रदेशादूर्द्धमुत्तिष्ठज्जलम् ॥ १४ ॥
विकिरं वालुकादीन् विकीर्य्य गृह्यमाणजलस्थानं तद्भव-
वम् ॥ १५ ॥
केदारः प्रसिद्धः । पाल्वलं तृणाद्याच्छन्नमन्दसरः ॥ १६ ॥
नद्याद्याधारवशेन जलधर्मानभिधायानूपादिदेशभवत्वेन
पुनर्जलगुणमाह आनूपमिति । मधुरमिति व्यक्तरसत्वेन तद्वि-
परीतन्तु अव्यक्तरसत्वेनेत्यर्थः ॥ १८ ॥
यद्यप्यानूपादावपि नद्यादिस्थितस्यैव जलस्यामी गुणा-
स्तथापि अनन्तरोक्तनादेयादिगुणेन समं न विरोधः । यतो-
ऽन्नद्रव्यप्रकृतिरक्तशाल्यादेस्तथा पेयादेस्तद्विकारस्य च पृथगुक्तं
गुणयोरिवात्रापि बलाबलनिरूपणं विरोधे सति चिन्तनीयम् ।
उभयानुगुणतया तु गुणस्योत्कर्ष एव भवतीति प्रतिपादि-
तम् ॥ १९ ॥
इदानीं नदीनां गम्यदेशविशेषात् तथा वेगावेगाभ्यां गुण-
दोषानाह पश्चिमेति । अतोऽन्येति पूर्वसमुद्रगास्तथा मृदु-
वहास्तथा कलुषोदकाश्चेत्यर्थः । विपरीता इत्यपथ्या इत्यर्थः ॥२०॥