द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 89, कुल 176 में से
संदर्भ में पढ़ें[Header]
द्रव्यगुणाः। ८१
उपलास्फालनाक्षेपविच्छेदैः खेदितोदकाः ।
हिमवन्मलयोद्भूताः पथ्यास्ता एव च स्थिराः ॥
क्रिमीपदहत्कण्ठशिरोरोगान् प्रकुर्वते ॥२१॥
पारियात्रभवा याश्च विन्ध्यसह्यभवाश्च याः ।
शिरोहृद्रोगकुष्ठानां ता हेतुः श्लीपदस्य च ॥२२॥
रक्षोघ्नं शीतलं ह्लादि ज्वरदाहविषापहम् ।
चन्द्रकान्तोद्भवं वारि पित्तघ्नं विमलं स्मृतम् ॥२३॥
दिवाककिरणैर्जुष्टं जुष्टमिन्दुकरैर्निशि ।
इदानीं नदीनां प्रभवस्थानविशेषेणापि गुणविशेषमाह
उपलेति। खेदितं जातक्षोभम् । उपलेत्यादिविशेषणेन हिम-
वन्मलयाधित्यकाभवानामेव पथ्यत्वमिति बोधयति। तेन सुश्रुते
हिमवन्मलयप्रभवाणामपथ्यत्वमुक्तं यत्तदुपत्यकाभवनद्यभिप्राये-
णेति चरकेण समं न विरोध इत्याहुः ॥ २१ ॥
अत्र पारियात्रदरीभवनदीजलाभिप्रायेण हृद्रोगादिकार-
णत्वमुक्तम् । सुश्रुते तु पारियात्रतड़ागोद्भावनदीबलादिकष्टं-
तयोक्तेति न विरोधः । तदुक्तं विश्वामित्रेण ।
तड़ागजं दरोजञ्च तड़ागाद्यत् सरिज्जलम् ।
बलारोग्यकरं तद्धि दरोजं दोषलं मतमिति ॥ २२ ॥
चन्द्रकान्तमणिप्रभवजलगुणमाह रक्षोघ्नमिति । इदन्तु
चन्द्रकिरणानुप्रवेशान्नाभसं मणिप्रभावाच्च भौममित्युभयात्मक-
मिति डल्लनः ॥ २३ ॥
भौमजलानामप्यर्कसोमसंस्कारजगुणविशेषं दर्शयन्नाह
दिवेति। अत्रार्थलभ्यमपि दिवानिशिपदं समस्तवारात्रि-