द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 169, कुल 176 में से
संदर्भ में पढ़ेंद्रव्यगुणः । १६१
आतपः कटुको रूक्षश्छाया मधुरशीतला ।
ज्योत्स्नाकषाय मधुरा दाहासृक्पित्तनाशिनी ॥
तमोभयावहं तिक्तं कुज्झटिः कफपित्तला ॥२३॥
शीताभिष्यन्दिनी वृष्टिस्तन्द्रानिद्रावलप्रदा ।
देशोधन्वामरुत्पित्तकरो रूक्षोष्ण एव च ॥
आनूपस्तु हिमः स्निग्धो वातश्लेष्मकरो गुरुः ।
साधारणः समगुणः सर्वरोगापहः स्मृतः ॥
हेमन्तः शीतलः स्निग्धः स्वादुरग्नेश्च वृद्धिकृत् ।
शिशिरः शीतलः किञ्चित् रूक्षस्तीक्ष्णोऽनिला-
ऽग्निकृत् ॥
वसन्तस्तुवरः सोष्णाकफव्याधिसमीरगाः ।
ग्रीष्म उष्णोऽतिरूक्षश्च कटुको वलहानिकृत् ॥
वर्षाः शीताविदाहिन्यो वह्निमान्यानिलात्तिंदाः
शरत्पित्तकफप्राया स्निग्धोष्णाशस्यवृद्धिकृत् ॥
पूतिमांसं स्त्रियोवृद्धा बालार्कस्तरुणं दधि ।
प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥
सद्योमांसं नवान्नञ्च वालास्त्रीक्षीरभोजनम् ।
घृतमुष्णोदकञ्चैव सद्यः प्राणकराणि षट् ॥
आतपादीनाञ्च कटुत्वादिकं यदुक्तं तत् कटुरसादितुल्य-
कार्य्यकर्तृत्वेन ज्ञेयम् ॥ २३ ॥