द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 168, कुल 176 में से
संदर्भ में पढ़ें१६० द्रव्यगुणः ।
सुखायुषीपराकुर्य्यात्कालरात्रिरिवापरा ॥
रात्रौ जागरणं रूक्षं स्निग्धं प्रस्वपनं दिवा ।
अरूक्षमन्नभिष्यन्दिवासीनप्रचलायितम् ॥२१॥
आस्यावर्णबलश्लेष्मसौकुमार्य्यकरी सुखा ।
तालवृन्तोद्भवं वातं त्रिदोषशमनं विदुः ॥
वंशव्यजनजः सोष्णो वातपित्तप्रकोपणः ।
चामरो वस्त्रवातश्च मायूरो वेत्रजस्तथा ॥
एते दोषजिता वाताः स्निग्धा हृद्याः सुपूजिताः ।
निवातमारोग्यकरं सुखवातं श्रमापहम् ॥
प्रवातं रौक्ष्यवैवर्ण्यस्तम्भकृद्दाहपित्तनुत् ।
प्राग्वायुरुष्णोऽभिष्यन्दी त्वग्दोषार्शोविषक्रिमीन् ॥
सन्निपातज्वरं श्वासमामवातञ्च कोपयेत् ।
पश्चिमः शिशिरो हन्ति मूर्च्छां दाहं तृषां विषम् ॥
प्राग्गुणो दक्षिणः प्रोक्त उत्तरः पश्चिमानुगः ॥२२॥
विष्वग्वायुरनायुष्यः प्राणिनां नैकरोगकृत् ।
धूमः पित्तानिलौ कुर्य्यादवश्यायः कफानिलौ ॥
अग्निर्वातकफस्तम्भशीतवेपथुनाशनः ।
आमाभिष्यन्दशमनो रक्तपित्तप्रकोपणः ॥
आसीनस्य प्रचलायितं घूर्णितमित्यर्थः ॥ २१ ॥
प्राग्गुण इति प्राग्वातगुणः ॥ २२॥