द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 170, कुल 176 में से
संदर्भ में पढ़ें१६२ द्रव्यगुणः ।
सन्तताध्ययनं वादः परतन्त्रावलोकनम् ।
तद्विद्याचार्य्यसेवा च बुद्धिमेधाकरोगणः ॥
आयुष्यं भोजनं जीर्णे वेगानामविधारणम् ।
ब्रह्मचर्य्यमहिंसा च साहसानाञ्च वर्जनम् ॥ २४॥
तन्त्राणां सारमाकृष्य द्रव्याणां गुणसंग्रहः ।
भिषजामुपकाराय रचितश्चक्रपाणिना ॥ २५ ॥
वैद्यमहामहोपाध्याय श्रीमच्चक्रपाणिदत्तकृत द्रव्य-
गुणसंग्रहः समाप्तः ।
इदानीमस्य संग्रहग्रन्थस्य उपादेयतां दर्शयितुमाह तन्त्राणा-
मित्यादि ॥ २५ ॥
आसीत् सभायां शिखरीश्वरस्य लब्धप्रतिष्ठः किल सारसेनः ।
वाणीविलासं कविसार्वभौमं विजित्य यः प्राप यशो दुरापम् ॥
काकुत्स्थसेनस्तनयस्ततोऽभूत् तस्यापि लक्ष्मीधरसेननामा ।
तस्मादभूदुद्धरणस्तनूजस्तस्याप्यनन्तस्तनयोऽथ जज्ञे ॥
योऽन्तरङ्गपदवीं दुरापां छत्रमप्यतुलकीर्त्ति रवाप ।
गौड़भूमिपतिर्वाक् साक्षात्तत्सुतस्य कृतिनः कृतिरेषा ॥
कृतिर्ममैषाखिलतन्त्रतत्त्वविच्चिकित्सकान्नोपकरोति यद्यपि ।
तथापि नव्यान् भिषगल्पदृष्टिनः परः सहस्राननुकूलयिष्यति ॥
इति शिवदाससेनकृतटीका समाप्ता ।