सामग्री पर जाएँ
सर्वकोश
द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)

Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs

पं. जीवनानन्द विद्यासागर द्वारा

DevanagariHindipublished176 पृष्ठ

पृष्ठ 167, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 167

द्रव्यगुणः । १५८
कण्डूमलकफस्वेदतन्द्रातड्दाहपाप्मजित् ।
उष्णाम्बुनाधः कायस्य परिषेको बलावहः ॥
तेनैव तूत्तमाङ्गस्य बलहृत्केशचक्षुषोः ।
आलेपनं वृष्यतरं बल्यं दुर्गन्धपाप्मजित् ॥
वासोनवं निर्मलञ्च श्रीमत्पारिषदं शुभम् ।
हर्घ्यं काम्यमौजस्यं रत्नाभरणधारणम् ॥
रजोवश्यायसूर्यांशूहिमानिलनिवारणम् ।
प्रतिश्यायशिरःशूलहरञ्चोष्णीषधारणम् ॥
ईतेर्विधमनं बल्यं गुप्तावरणशङ्करम् ।
घर्मानिलरजोम्बुघ्नं छत्रधारणमुच्यते ॥ १८ ॥
स्खलतः सम्प्रतिष्ठानं शत्रूणाञ्च निवारणम् ।
अवष्टम्भनमायुष्यं भयघ्नं दण्डधारणम् ॥
पादाभ्यङ्गस्तु चक्षुष्यो निद्राकृत्पादरोगहा ।
संवाहनं मांसरक्तत्वक् प्रसादकरं परम् ॥
प्रीतिनिद्राकरं वृष्यं कफवातश्रमापहम् ।
निद्रायत्तं सुखं दुःखं पुष्टिः कार्श्यं बलाबलम् ॥
वृषताक्लीवताज्ञानमज्ञानं जीवितं न च ॥ २० ॥
अकालेऽतिप्रसङ्गाच्च न च निद्रा निषेविता ।
ईतिरागामिदुर्दैवम् । गुप्तिः पिशाचादिभ्यो रक्षा ॥ १८ ॥
न च जीवितं मरणमित्यर्थः ॥ २० ॥