द्रव्यगुण विज्ञान (शास्त्रीय औषधीय वनस्पतियों का महाकोश)
Dravyaguna Vijnana: Materia Medica of Ayurvedic Herbs
पं. जीवनानन्द विद्यासागर द्वारा
पृष्ठ 166, कुल 176 में से
संदर्भ में पढ़ें१५८ द्रव्यगुणः १
दन्तकाष्ठं करञ्जादि रुचिदं दन्तशोधनम् ॥ १८॥
जिह्वा निर्लेखनं वक्त्रजिह्वावैरस्य जाड्यजित् ।
देवगोविप्रवृद्धानां गुरूणामपि पूजनम् ॥
आयुष्यं वृद्धिदं पुण्यमलक्ष्मीकविनाशनम् ।
मङ्गल्योपासनं शस्तं वृद्धिदं व्यसनापहम् ॥
पादप्रक्षालनं पादमलरोगश्रमापहम् ।
दृष्टिप्रसादनं वृष्यं रक्षोघ्नं प्रीतिवर्धनम् ॥
नेत्रमञ्जनसंयोगात् भवेच्चामलतारकम् ।
लाघवं कर्मसामर्थ्यं स्थैर्यं क्लेशसहिष्णुता ॥
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते ।
वातपित्तामयी बालो वृद्धोऽजीर्णी तु तां त्यजेत् ॥
मेदोहरः स्थैर्य्यकरो गौरवव्याधिनाशनः ।
अभ्यङ्गो मार्दवकरो वातश्लेष्मविनाशनः ॥
उद्वर्त्तनं स्थिरकरं कफमेदोविनाशनम् ।
स्नानं दीपनमायुष्यं वृष्यं स्वर्य्यं बलप्रदम् ॥
परतन्त्रे च पाठात् । अन्ये तु दशैवान्यान् प्रवक्ष्यामीत्यत्र दश
चान्यानिति पठित्वा चकारस्यानुक्तसमुच्चयार्थत्वेनाधिकगुणद्वय-
पाठं समर्थयन्ति । इति गुणकर्मनिर्देशः ॥ १७ ॥
इदानीं परिशेष्याद्दन्तकाष्ठादिगुणमाह दन्तकाष्ठमित्यादि ।
आदिशब्दात् करवीरादीनां ग्रहणम् । तदुक्तं
करञ्जकरवीरार्कमालतीककुभाशनाः ।
शस्यन्ते दन्तपवने ये चाप्येवंविधा द्रुमाः ॥ इति ॥ १८॥