सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 99, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 99

पुत्रस्यैव भाव्यत्वं प्रतीयते तत्प्रजापदोपात्तयोः स्त्रीपुंसयोर्मध्ये
पुत्रस्य तद्वाक्यविहितगुणफलतया अवश्यस्यानुवादः पुत्रार्थि-
प्रवृत्त्यर्थः गुणाश्च युग्मनिष्ठाशुक्राधिक्यस्त्रीचामतेन्दुसौख्यपुंस-
वनापूर्वादयो योगिमन्वादिभिरेव एवमित्यादिना स्पष्टीकृताः ।
आश्वलायनेनापि पाणिग्रहणे पुत्रपुत्र्योर्गुणफलत्वं प्रकटितं ।
गृह्णामि ते सौभगत्वाय हस्तमित्यङ्गुष्ठमेव गृह्णीयात्, यदि काम-
येत पुमांस एव मे पुत्रा जायेरन्नित्यङ्गुलीरेव स्त्रीकामोरो-
मान्ते हस्तं साङ्गुष्ठमुभयकाम इति । एतेन स्त्रियोऽयुग्मासु रात्रि-
ष्वित्यपि व्याख्यातम् । तस्मात् पुत्रस्यैव श्राद्धकर्त्तृत्वेन परलोक-
साधनतया पुत्र्या अपि दानश्राद्धादिविधिसाधनत्वेन सिद्धे मुख्यत्वे
तदपचारे प्रतिनिधिर्युक्त एव । दुहिता दुरहिता दूरे हिता


पर्वदिनं चतुर्थे युक्पशुं पञ्चमे इत्यादितद्भूतवचनादितिशेषः ।
'इन्दुसौख्यं' चन्द्रशुद्धिः । अन्यथा प्रशस्तकन्यासत्त्वे पुत्रोकरणं न
स्यादिति । तथाच पौरसपुत्र्या पुत्रिकाकरणवत् दत्तकादि-
पुत्रीणामपि पुत्रिकाकरणं सिद्धमिति । एतेनेदमुक्तं यत् कन्यासत्त्वे
दौहित्रकृतलोकप्राप्तावपि पुत्रकृतलोकादिप्राप्त्यर्थं पुत्रप्रतिनिधेराव-
श्यकत्वं, पुत्रसत्त्वे तत्कृतलोकसिद्धावपि दौहित्रकृतलोकावाप्त्यर्थं
दुहितुरवश्यम्भावः, सुतरां पौरसपुत्राभावे दत्तकादुहितॄणां प्रति-
निधित्वं युक्तमिति । एवमित्यादिनेति । एवं गच्छन् पुसं जनये-
दिति, प्यादिना तस्माद्युग्मासु पुत्रार्थी संविशेदातवे स्त्रियमिति
मनुवचनपरिग्रहः । मन्वादिति । — दुरहिता इत्यस्य विवरणं दूरे
हिता दोग्ध्या इति । दोग्ध्या दोषहर्त्री उपकर्त्री भविष्यातीत्यर्थः ।