सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 100, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 100

दोग्धा वेति निरुक्त्या दुहितुर्दोहित्रद्वारापि पित्रुपकारकत्वं
दर्शयति यास्कः ।
मनुरपि । पौत्रदौहित्रयोर्लोके विशेषो ऽ नोपपद्यते ।
दौहित्रोऽपि ह्यमुत्रैनं सन्तारति पौत्रवदिति । महाभारते
गान्धार्युक्तिश्च । एका शताधिका बाला भविष्यति गरीयसी ।
तेन दौहित्रजाँल्लोकान् प्राप्नुयामिति मे मतिः । अन्यत्रापि दुहि-
तर एव मातापित्रोः किमौरसाः पुत्राः । निपतन् दिवो ययाति-
र्दौहित्रैरुद्धृतः पूर्वमिति । दौहित्रैरष्टकादिभिः कानीनैर्माग-
धीपुत्रैः । एवञ्चौरसदुहितृभावे दौहित्रशतलोकप्राप्त्यर्थं क्षेत्र-
जादिदुहितॄणामपि प्रतिनिधित्वेनोपादानं सिद्धमेव । न च सोऽपि
प्रतिनिधिरित्येव वचनमस्ति । यद्येवं तर्हि भर्त्रपचारे देवरस्येव
भार्यापचारे श्यालिकायाः प्रतिनिधित्वं स्यात्