दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 9, कुल 191 में से
संदर्भ में पढ़ेंलोकोऽसीत्याद्यलोकतापरिहारात्। न च पिण्डोदकदानार्थे
तत्करणमिति वाच्यम्। पुत्रः पौत्र प्रपौत्रश्च तद्वद्वा भ्रातृसन्त-
तिरित्यनेन तयोरेव तदधिकारावगमात्।
अपुत्रेणेति पुंस्त्वश्रवणात् न स्त्रिया अधिकार इति गम्यते।
अतएव वशिष्ठः। न स्त्री पुत्रं दद्यात् प्रतिगृह्णीयाद्वा अन्यत्रानु-
ज्ञानाद्भर्तुरिति। अनेन विधवाया भर्तुरनुज्ञानासम्भवात् अनधि-
कारो गम्यते। न च सधवायाः स्वभर्तुरनुज्ञापेक्षापारतन्त्र्यात् न
विधवाया इति वाच्यम्। स्त्रीसामान्योपादानेन पारतन्त्र्यस्य
प्रयोजकत्वात्, अभावे ज्ञातयस्तेषामिति ज्ञातिपारतन्त्र्यस्य
सद्भावाच्च।
तर्हि ज्ञात्यनुज्ञयैव तस्याः पुत्रीकरणमस्त्विति चेन्न भर्तृप-
दस्योपलक्षणतापत्तेः प्रयोजनासिद्धेश्च। प्रयोजनन्तु भर्तुरनुज्ञानस्य।
असिद्धेरिति पुत्रीकरणाभावे सिद्धे ज्येष्ठीकरणस्याप्रसक्तेरिति
भावः। तयोरेवेति एवकारोऽप्यर्थकः। 'तयोः' पौत्रप्रपौत्रयोरित्यर्थः।
'पुंस्त्वश्रवणादिति' पुंस्त्वस्य विधेयविशेष्यत्वेन विवक्षितत्वादिति
भावः। 'अनेनेति' भर्तुरनुज्ञानासम्भवेन भर्तृभावेनेति शेषः। भर्तुरनु-
ज्ञानासम्भवादित्यनेन सति भर्तरि पूर्वं तदनुमतौ अधिकारो
भवत्येवेति बोध्यम्। 'पारतन्त्र्यादिति' रक्षेत् कन्यां पिता विन्नां
पतिः पुत्राश्च वार्द्धके। अभावे ज्ञातयस्तेषां न स्त्री स्वातन्त्र्यमर्हतीति
याज्ञवल्क्यवचनादिति शेषः। स्त्रीसामान्योपादानेन न स्त्री पुत्रं
दद्यात् प्रतिगृह्णीयादिति वचने इति शेषः।
ननु अभावे ज्ञातयस्तेषामित्यनेन भर्तृभावे ज्ञातिपारतन्त्र्यावग-
मात् अन्यत्रानुज्ञानाद्भर्तुरित्यत्र भर्तृपदस्योपलक्षकता युज्यते इत्याह