दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 8, कुल 191 में से
संदर्भ में पढ़ेंAn accurate, line-by-line transcription of the page into Devanagari Markdown:
६ दत्तकमीमांसा।
श्रुत्यनुमापकमिति ध्येयम् । न च स्मार्त्ता श्रुतिः श्रौतस्य लिङ्गस्य न
बाधिकेति वाच्यम् । नापुत्रस्य लोकोऽस्तीत्यादिप्रत्यक्षश्रुत्युपष्टम्भेन
तस्या एव बलवत्त्वात् । अथापि स्मार्त्तश्रुतितः श्रौतलिङ्गबलवत्त्व
एव धीमतामाशयातिशयश्चेत् तर्हि पुत्रानुज्ञया पुत्रवतोऽप्यस्तु
पुत्रान्तरपरिग्रहाधिकारः । यन्नः पिता सञ्जानीते तस्मिंस्तिष्ठामहे
वयम् । पुरस्तात् सर्वे कुर्महे त्वामन्वञ्चो वय स्मधीति श्रौत-
लिङ्गात् । नचेदं ज्येष्ठीकरणे लिङ्गं न पुत्रीकरण इति वाच्यम् ।
तस्य तद्भावेनैवाधिष्ठितेरित्यलं पल्लवितेन ।
अपुत्रेणेति पुत्रपदं पौत्रप्रपौत्रयोरप्युपलक्षकम् । पुत्रेण
लोकान् जयति पौत्रेणानन्त्यमश्नुते । अथ पुत्र