दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 7, कुल 191 में से
संदर्भ में पढ़ेंदत्तकमीमांसा । ५
आपत्काले तु कर्त्तव्यं दानं विक्रय एव वा । अन्यथा न प्रकर्त्तव्य-
मिति शास्त्रविनिश्चय इति । मनुरपि । अपुत्रेण सुतः कार्य्यो
यादृक् तादृक् प्रयत्नतः । पिण्डोदकक्रियाहेतोर्नामसङ्कीर्त्तनाय
च । अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकामिति ॥
यत्तु विश्वामित्रादीनां पुत्रवतामपि देवरातादिपुत्रपरिग्रह-
लिङ्गदर्शनं तदपुत्रेणैवेत्यादिश्रुतिविरोधात् श्वाजाघनीभक्षणादिवन्न
पुनः प्रत्यवायो नास्तीति भावः । मातापित्रोर्दुर्भिक्षादिरूपायामापदि
दाने प्रमाणमाह तथाचेति आपदिति । तथाच आपत्काल इत्यस्य
दानं कर्त्तव्यमिति क्रियायाः कर्त्तृत्वेनोपस्थितेन दात्रा सम्बन्धो युक्तो
न त्वनुपस्थितेन प्रतिग्रहीत्रेति भावः । यादृक् तादृगिति तृतीयान्त-
मव्ययम्, प्रयत्नतः इत्यस्य सामानाधिकरण्येनान्वयानुरोधात् । प्रयत्नतः
इति प्रयत्नसामान्योपादानेऽपि क्षेत्रजादीन् सुतानेतानित्येकादश-
पुत्रप्रतिनिधिश्रवणात् एकादशप्रयत्ना बोद्ध्याः । पिण्डोदकेति,
मिलितानामेषां निमित्तत्वं न प्रत्येकं, तेन सर्वार्थमेकएव पुत्रीकार्य्य
इत्यग्रे वक्ष्यति ।
यत्त्विति, देवरातेति । अथ शुनःशेफो विश्वामित्रस्याङ्कमाससाद
सहोवाच जामदग्निः सौशर्वं वशिष्ठऋषिः पुनर्मे पुत्रं देहीति, नेति
होवाच विश्वामित्रो देवावामह्यमरासतेति, सहदेवरातो विश्वामित्र
थ्यासेति बह्वृच ब्राह्मणादिति शेषः । 'तदपुत्रेणैवेति' अपुत्रेणैव कर्त्तव्य
इति श्रुत्यनुमितश्रुतिविरोधादित्यर्थः । 'श्वाजाघनीभक्षणादिवदिति'
क्षुधार्त्तेनात्तुमुभ्यागाद्विश्वामित्रः श्वाजाघनीमिति मनुवचनेनेति शेषः ।
तथाच तेषामृषित्वात् देवकल्पत्वाद्वा तदाचारो न पुरस्करणीयो
नापि तिरस्करणीयः । तदुक्तं, कृतानि यानि कर्म्माणि दैवतैर्मुनिभि-
स्तथा । नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेदिति ॥ नचेति ।