सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 66, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 66

७० दत्तकमीमांसा ।
कृत इति । पौनर्भवस्तोमे कृते तत्तैः संस्कारैः पौनर्भवः सुतो
भवतीत्यर्थः ।
प्रासङ्गिकान् पौनर्भवधर्मानाह । एकोद्दिष्टं पितुः कुर्य्यान्न
श्राद्धं पार्व्वणादिकम् । पौनर्भवः पुत्रः पितुः क्षयाहे एकोद्दिष्टमेव
कुर्य्यात् न पार्वनादिकं । आदिशब्दात् पार्वणविकृतीनामपि निषेधः ।
प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ । कुर्य्यातामितरे कुर्य्युरे-
कोद्दिष्टं सुता दशेति जातूकर्ण्यस्मरणात् । पितुर्गतस्य देवत्वमौरसस्य
त्रिपौरुषम् । सर्व्वचानेकगोत्राणामेकोद्दिष्टं क्षयेऽहनीति पराशर-
इत्यन्तेन उत्पत्तिमात्रेण पौनर्भवं प्रतिपाद्य, नक्षितवत् पञ्चवर्षा-
भ्यन्तरवयस्कोऽपि प्रतिग्रहानन्तरं पौनर्भवष्टोमाख्ययागविशेषं कृत्वा
जातकर्ममादयो