दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 58, कुल 191 में से
संदर्भ में पढ़ें६० दत्तकमीमांसा ।
णता न श्रूयते तथापि तदङ्गभूते वृद्धिश्राद्धे तत्सम्बन्धावगमाभावात्
प्रधानेऽपि तत्सम्बन्ध इति । चूडादिषु साक्षादेव तत्सम्बन्धः । शिखा
अपि च कर्त्तव्याः कुमारस्यार्षसंख्ययेति स्मरणात् । संस्कारैः
पुत्रत्वमित्युक्तम् तानेवान्वयव्यतिरेकाभ्यामाह पितुर्गोत्रेणेति । यः
पुत्र आचूडान्तं चूडान्तैः संस्कारैः पितुर्जनकस्य गोत्रेण संस्कृतः
षोऽन्यतोऽन्यस्य पुत्रतां न याति अयमत्राभिसन्धिः । कृतचूडस्य
परिग्रहीतृपुत्रताभावप्रतिपादनं असाधारणपुत्रतां विषयीकरो-
तीत्यवश्यं वाच्यम् । अन्यथा गृहीत्वा पञ्चवर्षीयमित्यनेन कृतचूड-
स्यापि परिग्रहीतृपुत्रताप्रतिपादनविरोधात् गृहीतेत्यस्य च कृत-
चूडविषयत्वावगमाभावः स्फुटमिष्यते । ततश्च चूडान्तसंस्कारसंस्कृतस्य
परिग्रहे द्वयामुष्यायणता भवति गोत्रद्वयेन संस्कृतत्वात् तस्य च
फलं गोत्रद्वयसम्बन्ध इत्यग्रे वक्ष्यते । अनेन जातकमीदीनां
चूडान्तानां संस्काराणां पुत्रताहेतुत्वमुक्तम् । आचूड़मिति वक्तव्ये
यदन्तपदं तदकृतार्थम समग्रशिखस्य पुत्रीकरणाभ्यनुज्ञानार्थं
कारः, औरसाभावे क्षेत्रजाद्याः क्रीतान्ताः सर्व्व क्रमेण राज्याधिकारिणः,
तेषामभावेऽपि पौनर्भवस्वयन्दत्तासा न राज्याधिकारिण इति ।
आर्षसंख्ययेति । प्रवरसंख्ययेत्यर्थः । तथाच येषां यावन्तः प्रवरा-
स्तेषां तावत्यः शिखाः कर्त्तव्या इति भावः । संस्कारैः पुत्रत्वमित्युक्त-
मिति । दत्ताद्या अपि तनया निजगोत्रेण संस्कृता इत्यनेन वचने-
नेति ज्ञेयम् । तानेवेति । —संस्कारानेव पुत्रत्वहेतुतयेत्यर्थः । अन्व-
येति । —संस्कारस्य सत्त्वे पुत्रत्वस्य दर्शनं तदसत्त्वे तददर्शनमित्यर्थ-
रूपाभ्यामन्वयव्यतिरेकाभ्यामित्यर्थः । यदकृतार्थसमेति । —तथाच जन-
केन शिखाच्छेदात् पूर्व्वस्मिन् कर्म्मणि कृतेऽपि प्रतिग्रहीत्रा प्रवर-