सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 59, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 59

दत्तकमीमांसा । ६१
प्रधानानिष्पत्त्या पुत्रतार्हत्वात् चूडाद्या इति बहुवचनाच्च ।
अकृतजातकर्माद्यसम्भवे कथमित्यत आह चूडाद्या यदीति ।
यदि चूडाद्याः संस्कारा निजगोत्रे प्रतिग्रहीतृगोत्रेण कृता वैश-
ब्दोऽवधारणे तदैव दत्ताद्यास्तनयाः स्युरन्यथा ते दासा
उच्यन्ते इति । चूडा आद्या येषां ते तथेति नतु चूडाया आद्या
इति पूर्वेण पौनरूक्त्यापातात् । अनेन जातकर्मोद्यन्नप्राशनान्तानां
जनकगोत्रे ऽप्यनुष्ठानेऽपि न विरोधः । तथाच अकृतजातकर्मादि-
संस्कार्या शिखाच्छेदनमात्रे कृते तस्य पुत्रत्वमनुक्तमिति भावः ।
प्रधानानिष्पत्येति प्रधानस्य चूडाच्छेदनरूपसंस्कारस्यानिवृत्त्या अनि-
ष्टापत्तेरित्यर्थः । चूडाद्या • इतीति ।—तथाच चूडाया यदि संस्कारा
इत्यत्र केवलं शिखाशब्दवाच्यचूडाशब्दश्रवणात् मुख्यार्थलाभ इति
भावः ।
अकृतजातेति ।—दत्ताद्या अपि तनया निजगोत्रेण संस्कृता
इत्यनेनाकृतजातकर्मणो ग्रहणमभिहितं तदसम्भवे तादृशस्याप्राप्तौ
कर्ता किं कुर्यात् । चूडाद्या यदीतीति ।—ननु चूडाया आद्या इति
षष्ठ्यर्थसमासाश्रयणं प्रहाय किमिति बहुव्रीहिराश्रीयते तत्रोत्तर-
पदकालिकत्वेन सत्पुत्रतान्वयबाधादित्यत आह पूर्वेणेति ।—दत्ताद्या
अपि तनया निजगोत्रेण संस्कृता इत्यनेनेत्यर्थः, तत्र हि प्रतिग्रहीतृ-
गोत्रेण चूडायाः पूर्वसंस्काराणां जातकर्मान्नप्राशनान्तानां करणेन
पुत्रत्वमुक्तं । अत्रापि तत्कथने पौनरुक्त्यापातादित्यर्थः । तथाचात्र तद्-
गुणसंविज्ञानबहुव्रीह्याश्रयणेन चूडाप्रभृतिसंस्कारा इति प्रतिपादितं।
अनेनेति ।—अनेन चूडाद्या यदि संस्कारा इत्यनेनेत्यर्थः । अकृत-
जातकर्मादिरिति :—प्रथममभिहितत्वात् मुख्यं ज्ञात्वा प्रथमं कल्पं