दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 55, कुल 191 में से
संदर्भ में पढ़ेंदत्तकमीमांसा। ५७
मातापितृनिमित्तकस्तस्य प्रदानविक्रयपरित्यागेषु मातापितरौ प्रभ-
वत इति। बौधायनोऽपि। मातापित्रोरेव संसर्गसाम्यादिति।
अतएव माता पिता वा दद्यातामिति मनुना मातुर्भर्त्त्रनुज्ञानसापे-
क्षत्वात् जघन्यत्वं स्त्र्यनुज्ञाननिरपेक्षत्वात् पितुर्मध्यमत्वं जनकत्वा-
साम्यात् उभयोर्मुख्यत्वमभिप्रेत्य पूर्वपूर्वानिरसादुत्तरोत्तरमभि-
धितम्। नचेदमेकमेव वाक्यं द्विवचनान्तैकक्रियाश्रवणादिति
वाच्यम्, मध्ये विकल्पसङ्गतेः, तस्मात् कल्पत्रयमेव। अतएव
योगीश्वरः। दद्यान्माता पिता यं वेति प्रत्येकमेकवचनान्तमेव
क्रियापदमुदाजहार, तत्रापि निमित्तमाह प्रयत्नत इति। प्रकृष्टो
यत्नो यस्मिन् कालेऽसौ 'प्रयत्नः' आपत्कालस्तेन चापत्काल एव
पुत्रदानं नान्यथेत्यर्थः। यथाह कात्यायनः। आपत्काले तु
कर्त्तव्यं दानं विक्रय एव वा। अन्यथा न प्रवर्त्तेत इति शास्त्रविनि-
श्चय इति। प्रक्रमात् पुत्रदाराणाम्। मनुरपि। माता पिता वा
विशिष्टशब्दप्रयोगे प्रयोक्तुः कौशल्यात् प्रयोगस्य सौगम्याच्च। संसर्ग-
साम्यादिति।—जनकत्वरूपसम्बन्धसाम्यादित्यर्थः। पूर्वपूर्वानिरसादिति।
—माता पिता वेत्यादिमनुवचने प्रथमतः मातृपदप्रयोगः कृतः, तत्र
पितरमपेक्ष्य मातुराधमत्वमस्वरसं विचिन्त्य पितृपदप्रयोगः कृतः पिता
वेति। तत्रापि शुक्रमशोणितमित्यादिवचनेनोभयोस्तुल्यकर्त्तृतामस्वरसबीजं
विचिन्त्य दद्यातामिति द्विवचनान्तक्रियोदाहरणेन पित्रोः प्रयोगः कृत
एवेति भावः। विकल्पेति।—माता पिता वेति वाक्यद्वयेनेतिशेषः।
अतएवेति।—यत एव कल्पत्रयं अतएवेत्यर्थः। तत्रापीति पुत्रग्रहणे-
ऽपीत्यर्थः। प्रयत्नत इति।—नैकपुत्रेण कर्त्तव्यं पुत्रदानं प्रयत्नत इत्य-
र्थेति ज्ञेयः। अत्र कात्यायनवचनं प्रमाणयति यथाह कात्यायन इति।
८