दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 54, कुल 191 में से
संदर्भ में पढ़ें५६ दत्तकमीमांसा ।
नचैवं विधवाया आपद्यपि पुत्रदानं न स्यात् भर्तुरनुज्ञाना-
सद्भावात् परिग्रहवदिति वाच्यम् । मानवीयलिङ्गदर्शनेन तथाकल्प-
नात् नैरपेक्ष्यैकत्वश्रवणाच्च । स्त्रीनिरपेक्षस्यैकस्यापि भर्तुर्दानाधि-
कारः । दद्यान्माता पिता यं वा माता पिता वा दद्यातामिति
मातृनिरपेक्षैकपितृनिर्देशात् बीजस्य प्राधान्यात् अयोनिजा अपि
पुत्रा दृश्यन्त इति बौधायनीयहेतुदर्शनाच्च । भारतेऽपि । माता
भस्त्रा पितुः पुत्रो येन जातः स एव हीति । श्रुतिरपि-आत्मा
वै जायते पुत्र इति । मानवे दद्यातामित्युभयकर्तृकताश्रवणा-
च्छोभयाधिकारो मुख्यः । अतएव वशिष्ठः शुक्रशोणितसम्भवः पुत्रो
नैरपेक्ष्यश्रवणाच्चेति ।—बहुपुत्रेष्वित्यत्र पत्नीनैरपेक्ष्येण बहुपुत्रकर्तृक-
पुत्रदानश्रवणादित्यर्थः । एवं भर्तृव्यपेक्षायां क्वापि पुत्रदानं सिध्यती