सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 51, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 51

तदेतत् स्पष्टमाह शौनकः। सपिण्डापत्यकसैव सगोत्रजमथा-
पिवा। अपुत्रकोऽदिशो यस्मात् पुत्रत्वे परिकल्पयेत्। समानगोत्र-
जाभावे पालयेदन्यगोत्रजं। दौहित्रं भागिनेयञ्च मातृष्वसृसु-
तन्विनेति। एतेन भागिनेयपदं दौहित्रमातृष्वस्रेययोरुपलक्षणमिति
स्पष्टमेव सिद्धम्। युक्तञ्चैतत् विरुद्धसम्बन्धस्य त्रिष्वपि समानत्वा-
दित्यलं बहुना।
नान्याजातीयः पुत्रीकार्य इत्युक्तं तदतिक्रमे कथमित्यत आह
शौनकः। यदि स्यादन्यजातीयो गृहीतोऽपि सुतः क्वचित्। अंश-
भाजं न तं कुर्य्याच्छौनकस्य मतं हि तदिति। अन्या ग्रहीत्रपेक्षया
उत्कृष्टा अपकृष्टा वा जातिर्यस्यासौ गृहीतो विधिनापीत्यर्थः।
अंशोधनस्य। अंशपदसामर्थ्यात् कृत्स्नधनव्युदासोऽर्थसिद्ध एव, सम-

षात् अविषक्षायामिति। दौहित्रभागिनेयेत्युभयपदाविवक्षापेक्षया
मदुक्तव्याख्याने भागिनेयपदमात्राविवक्षायां लाघवादित्यर्थः। तथा-
चात्र वचने द्विजपदात् दौहित्रभागिनेयपदाच्च दौहित्रभागिनेययो-
नैवत्रिकसत्त्वाभावः स्पष्टमेव सिध्यति, तदा च शूद्राणामेव दौहि-
त्रभागिनेयाविति नियमशरीरं सुलभमेव न क्वाप्यनुपपत्तिरितिभावः।
भागिनेयपदमिति। ब्राह्मणादिष्वये नास्ति इतिवचनात्
भागिनेयपदं। यच्च दौहित्रादीनां पुत्रान्तरत्वे प्रमापयति विरुद्ध-
सम्बन्धस्येति। विरुद्धसम्बन्धस्तु स्वयमेव वक्ष्यति विरुद्धसम्बन्धो गृह्य-
परिशिष्ट उक्तोदिगा नान्याजातीय इति। —सर्वेषामेव वर्णानां
जातियेव न चान्यत इत्युक्तेरितिशेषः। कथमिति का व्यवस्थेत्यर्थः।
कृत्स्नधनव्युदास इति। —सदाचीनन्यूनतरफलदानंरंअंशरलाभानेऽपि