दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 5, कुल 191 में से
संदर्भ में पढ़ेंतत्राहात्रिः । अपुत्रेणैव कर्त्तव्यः पुत्रप्रतिनिधिः सदा ।
पिण्डोदकक्रियाहेतोर्यस्मात्तस्मात् प्रयत्नत इति ॥
“अपुत्रः” अजातपुत्रो मृतपुत्रो वा । अपुत्रो मृतपुत्रो वा,
पुत्रार्थं समुपोष्य चेति शौनकीयात् । वन्ध्यो मृतप्रजो वापीति
पाठान्तरम् । अपुत्रेणेति अपुत्रताया निमित्ततावगमात् पुत्रा-
करणे प्रत्यवायोऽवगम्यते । पुत्रोत्पादनविधेर्नित्यतया तल्लोपस्य
प्रत्यवायनिमित्ततापर्यवसानात्, नापुत्रस्य लोकोऽस्तीति पुत्र-
सामान्याभाव एवालोकताश्रवणात् जायमानो हवै ब्राह्मणस्त्रिभि-
र्ऋणैर्ऋणवान् जायते ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया
पितृभ्यः एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी चेत्यत्रापि
पुत्रसामान्याच्चानृण्यहेतुताश्रवणाच्च ।
अपुत्रेणेति । अत्रापुत्र इत्यस्य अजातपुत्रोऽमृतपुत्रश्चेत्यर्थकत्वेन
नञः प्रागभावध्वंसात्यन्ताभावरूपसंसर्गाभावबोधकत्वं फलितम् । तेन
पुत्रप्रागभावसत्त्वेऽपि पुत्रीकरणं शास्त्रीयम् । अतएव तस्मिंश्चेत् प्रति-
गृहीते चौरस उत्पद्येत चतुर्थभागभागी स्याद्दत्तक इति वशिष्ठवचनात्
दत्तकपुत्रग्रहणानन्तरमौरसपुत्रोत्पत्ति सङ्गच्छते, सङ्गच्छते च वन्ध्या-
ष्टमेऽधिवेत्तव्येत्यादिवत् यथावधि प्रतीक्षाभावमिति वक्ष्यमाण-
-ग्रन्थसन्दर्भ इति सुधीभिर्विभावनीयम् । वन्ध्य इति अजातपुत्र
इत्यर्थः । वन्ध्यस्याप्यजातपुत्रत्वाविशेषात् पुत्रात्यन्ताभाववानित्यर्थकत्वे
तु अजातपुत्रोऽमृतपुत्रेतिविशेष्यासम्भवविरोधः स्यात् । प्रत्यवाय इति प्रत्य-
-वायजनकी भूताभावप्रतियोगिनि निष्पत्ताविति भावः । जायमान
इति गृहस्थः सम्पद्यमान इति हेतुनिर्णयः । ‘त्रिभि’ र्ऋषिदेवपितृभि-
रित्यर्थः । वस्तुतस्तु ‘जायमानं’ उपनीत इत्यर्थः, द्वितीयं मौञ्जीबन्धनम्