दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)
Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law
नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा
पृष्ठ 49, कुल 191 में से
संदर्भ में पढ़ेंशब्दविधाया गुरुत्वात् श्रुतिकल्पने श्रुतिद्वयकल्पनाच न्यायमूलकत्वे
च नास्तीतिवर्त्तमानोपदेशो लिङ्गम्
यदा तु दौहित्रो भागिनेयो वा शूद्राणां विहितः सुत इति
पाठस्तदापि शूद्राणामेव शूद्राणामपीति वेत्यन्वयसंशयव्युदासाय
नियमपरतामेव स्पष्टीकर्त्तुं " ब्राह्मणादिष्वित्यस्य सह तैरेकवाक्य-
तैव नियमपरता चेयं । दौहित्रभागिनेयकर्मकपुत्रीकरणभाव-
नायामनियमेन चतुर्णामपि वर्णानां कर्त्तृत्वेन प्राप्तौ शूद्रनियमेन
शूद्राणामेवेत्यन्वयः सिध्यति, तथा च भागिनेयपदं दौहित्रस्याप्युप-
नापेक्षया शब्दवोधस्य गौरवात् । न्यायमूलकतयैकवाक्यत्वे प्रमाणं
दर्शयति न्यायमूलकत्वे चेति, तथाच भिन्नवाक्यत्वे दौहित्रभागि-
नेयश्च शूद्रेषु क्रियते सुत इतिवत् ब्राह्मणादिष्वग्रे नास्तीत्यत्रापि क्रियते
कर्त्तव्योवेत्यादिविध्यर्थकक्रियापद मुनीनामुचितं स्यात्, नास्तीति विध्य-
वाचकवर्त्तमानार्थैकप्रयोगस्यानौचित्यादिति भावः । वर्त्तमानोपदेश
इति ।—वर्त्तमानकथनमित्यर्थः । 'लिङ्ग' हेतुः ।
अन्वयसंशयव्युदासेति —तथाच दौहित्रोभागिनेयो वेत्यत्र वा-
शब्दस्यावधारणार्थत्वसमुच्चयार्थत्वसम्भवात् तदर्थलाभः, "वा स्याद्वि-
कल्पोपमयोरेवार्थे च समुच्चये" इतिकोशात् । एकवाक्यतैवेति, नियम-
परतैवेति ।—यदा तु दौहित्रो भागिनेयो वा इति पाठस्तदापि
तत्पाठेऽपि नियमपरता इत्यर्थः । इयं दौहित्रभागिनेयौ शूद्राणा-
मेवेत्येवंरूपा एतदेवाभिप्रेत्य स्वयमेव व्याचष्टे दौहित्रेति । अनिय-
मेनेति ।—ब्राह्मणाना सपिण्डेषु कर्त्तव्य पुत्रसङ्ग्रह इत्यादि सामा-
न्यवचनात् । शूद्रनियमेनेति ।—दौहित्रभागिनेयश्चेत्यनेनेतिशेषः ।
शूद्राणामेवेत्यन्वय इति ।—अन्यथा ब्राह्मणाना सपिण्डेषु इति सामा-