सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 48, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 48

५० दत्तकमीमांसा ।
दौहित्रादि पक्षे च भ्रातृव्यादेः प्राप्तत्वात् । शूद्राणामेव दौहित्र-
भागिनेयाविति च परिसङ्ख्या दौहित्रादिश्चतुर्ष्वपि वर्णेषु युगपत्-
प्राप्तत्वात् । तथाच भ्रातृव्यादिविधायकसामान्यशास्त्रस्य बाधः,
सर्वेषामेव वर्णानां जातिष्वेव न चान्यत इत्यत्र जातिपदस्य दौहि-
त्रादिपरतया सङ्कोचः, दौहित्रभागिनेययोरभावे पुत्रीकरणा-
भावप्रसङ्गश्चेति । परिसङ्ख्यापक्षे तु शूद्राणामिवेत्यनेनैव त्रैवर्णिकेषु
तन्निषेधसिद्धौ ब्राह्मणादित्रये नास्ति इत्यादि पुनस्तन्निषेधकवाक्य-
वैयर्थ्यापत्तिरिति । तस्मादनुमानविधेव वाक्यद्वयव्याख्या साधीय-
सीति । किञ्च न्यायमूलिकाया अनुमानविधायाः श्रुतिमूलिकायाः
इति ।—पक्षे रागपक्षे शूद्राणामेव दौहित्रभागिनेयाविति । तथाच
एकस्य दौहित्रविषयकपुत्रीकरणस्य शूद्रेषु त्रैवर्णिकेषु च प्राप्तस्य
त्रैवर्णिकेभ्यो निवृत्यर्थं शूद्रेषु विधीयते इति तात्पर्ये एकस्यानेकत्र
प्राप्तस्य वन्यतो निवृत्यर्थं एकत्र पुनर्वचनं परिसङ्ख्येति लक्षणात् ।
क्रमेण दूषयति तथाच इति बाध इति—नियमस्य स्वांशेऽन्ययोगव्यवच्छेद-
फलकत्वमिव सदतिरिक्त सदैवेवम् अन्ययोगव्यवच्छेदफलकत्वमपीति
तात्पर्यम् । जातिपदस्येति ।—शूद्रविषय इति शेषः । ननु दौहित्र-
भागिनेयवचनेन सर्वेषामपि वर्णानामिति सामान्यशास्त्रस्याप्य-
भावस्य सामान्यविशेषन्यायात् कथं स्याद् दौहित्रभागिनेयोरिति ।
पुत्रीकरणाभावप्रसङ्गश्चेति ।—इष्टापत्तौ समाचारविरोधादिति भावः ।
परिसंख्यापक्षे दोषमाह शूद्राणामिवेतीति ।—तन्निषेधसिद्धाविति
विधानेनैवान्यत्र प्रतिषेधसिद्धेरिति । न्यायात् उपसंहरति तस्मा-
दिति । दृष्टान्तं प्रदर्शयति किञ्चेति । न्यायमूलिकाया इति ।—
स्मृतेर्विरोधे न्यायस्तु बलवान् व्यवहारत इत्यादि वचनारूढमा-