सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 46, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 46

हेतौ व्यर्थविशेषणतापत्तेः विवक्षायां भागासिद्धेश्च दौहित्रभागिनेयौ
शूद्रविषयौ शास्त्रान्तरे त्रैवर्णिकविषयलाभावात् यथा सुरापाना-
दाविति तेनोभयोस्त्रैवर्णिकविषयत्वासिद्धिः ।
अथेहं वाक्यद्वयं शब्दविधयैव स्वस्वविषये प्रमाणं नानुमान-
विधया, तेन भागिनेयमात्रस्यैव त्रैवर्णिकविषयत्वाभावो न दौहित्र-
भागिनेयस्य त्रैवर्णिकसुतत्वादर्शनादिति हेतौ भागिनेयविशेषणस्य
व्यभिचारावारकत्वेन वैयर्थ्यात् त्रैवर्णिकसुतत्वादर्शनादित्यनेनैव विव-
क्षितार्थलाभादिति भावः । भागासिद्धेरिति । दौहित्रभागिनेयौ
शूद्रविषयौ शास्त्रान्तरे भागिनेयस्य त्रैवर्णिकसुतत्वादर्शनादित्यनुमाने
पक्षांशे भागिनेये शास्त्रान्तरे भागिनेयस्य त्रैवर्णिकसुतत्वादर्शना-
दिति हेतोश्चरितार्थत्वेऽपि दौहित्ररूपपक्षांशे तस्याचरितत्वात् भागासिद्धि-
रिति, यथा अभिधेयं प्रमेयम् धर्मत्वादित्यत्र धर्मशब्दस्य पुण्यधर्मै-
कत्वकल्पनया भागासिद्ध्यभिधानं, तथाच न्यायविद् पक्षतावच्छेदकसा-
मानाधिकरण्येन हेत्वभावे भागासिद्धिरिति । सुरापानादाविति ।-
यथा सुरापाननिषेधस्तु गौड्याश्रय इति स्मृत इति शास्त्रात् सुरा-
पानं शूद्रविषयं त्रैवर्णिकविषयत्वाभावादिति सच्चेत्यर्थः ।
शूद्रैरेव दौहित्रभागिनेयौ पुत्रीकार्यौ इति नियमदार्थ्याय पूर्व-
पक्षासिद्धान्ताभ्यां विचारयति अथेति । इदमिति ।- 'दौहित्रो
भागिनेयश्चेति, 'ब्राह्मणादित्रयेनास्ति' इति वाक्यद्वयमित्यर्थः । शब्देति ।
शूद्ररूपेण स्व स्व विषये दौहित्रोभागिनेयश्चेति ब्राह्मणादित्रये
नास्तीति शब्दप्रमाणप्रमेये शूद्रकर्तृकं दौहित्रभागिनेयपुत्रीकरणरूपे
ब्राह्मणादीनां भागिनेयमात्रपुत्रीकरणनिषेधरूपे च । नानुमानविधया ।-
दौहित्रभागिनेयौ शूद्रविषयौ शास्त्रान्तरे त्रैवर्णिकसुतत्वादर्शनादित्य-
नुमानरूपेण तथाच शूद्राणां दौहित्रभागिनेययोः पुत्रीकरणविधिः