सामग्री पर जाएँ
सर्वकोश
दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

दत्तकमीमांसा (नन्दपण्डित - हिन्दू दत्तक-ग्रहण विधि एवं न्याय का आधारभूत ग्रन्थ)

Dattaka Mimansa of Nanda Pandita on Hindu Adoption Law

नन्दपण्डित (अनुवादक: जे. सी. सी. सदरलैण्ड) द्वारा

DevanagariHindipublished191 पृष्ठ

पृष्ठ 45, कुल 191 में से

संदर्भ में पढ़ें
पृष्ठ 45

दत्तकमीमांसा । ४७
नियामकवृद्धव्यवहाररूपन्यायविरोधात् प्रयोजनाभावादतिप्रस-
ङ्गात् । अनेनैव प्रत्यासत्तिसामान्यापवादे दौहित्रो भागिनेयश्चेति
प्रत्यासत्तिविशेषापवादामङ्गतेश्च तस्मात् यथोक्तव्याख्यैवं प्रयोजनव-
तीति ।
प्रत्यासत्तिसामान्यात्प्राप्तयोर्दौहित्र इति तुशब्दस्य चावधा-
रणार्थतया शूद्रैरेवेति नियमात् त्रैवर्णिकव्यावृत्तिः, तत्र हेतुमाह
ब्राह्मणादित्रय इति । क्वचिदपि शास्त्रे भागिनेयस्य त्रैवर्णिकसुतत्वा-
दर्शनात् शूद्रविषयत्वमेवे तिसमुदायार्थः, भागिनेय इत्यविवक्षितं
रस्थीनि मांसैर्मांसानीत्यादि श्रुतेरवयवैकत्वाक्षेपात् सच वैदिकप्रत्यासत्तिः
उक्तश्रुतिरूपवेदसिद्धत्वात् अपवादश्चासौ लौकिकवैदिकप्रत्यासत्ति-
श्चेति तन्नियामकस्तन्निर्णायको यो वृद्धव्यवहाररूपो न्यायस्तद्विरोधा-
दित्यर्थः । प्रयोजनाभावादिति ।—सन्निहितसपिण्डादिपरित्यागेन स-
जातिमात्रग्रहणव्यवस्थायां दृष्टप्रयोजनाभावात् इत्यर्थः । यतोति ।—
ब्राह्मणानां सपिण्डेष्वित्यादिना प्रथमं सपिण्डग्रहणस्य लक्षितत्वात्
तद्ग्रहणे सत्ये वक्ष्यमाणमनवबाधितं स्यात् । तत्सत्त्वे सजातिमात्रग्रह-
णेऽलक्ष्ये स्वीकार्ये वक्ष्यमाणमनुरूपातिप्रसङ्गादित्यर्थः । अने-
नैवेति ।—क्षत्रियस्यापि सजातौ वा इत्यनेनैवेत्यर्थः । प्रत्यासत्तिसामन्ये-
नेति ।—एतद्वचनेनैव सापिण्ड्यादिप्रत्यासत्तिसामान्यापवादे दौहित्रि
भागिनेयश्चेत्यनेन प्रत्यासत्तिविशेषस्यापवादासम्भवादित्यर्थः, तथाचा-
पवादस्यापवादोऽसम्भव इति भावः । उपसंहरति तस्मादिति ।
, तुशब्दस्येति । शूद्रैस्त्वित्यत्रेति ज्ञेयः । ननु ब्राह्मणादित्रये नास्ति
भागिनेयः अतः क्वचिदित्यत्र मुनेर्भागिनेयपदप्रयोगवैयर्थ्यात् तत्पदं
विवक्षितमेवेतिपरित्याग्य दिश्याह । हेताविति ।—